Enter your Email Address to subscribe to our newsletters

कोलकाता, 20 मईमासः (हि. स.)।
पश्चिमबङ्गप्रदेशे पञ्चायतसम्बद्धानां कथितभ्रष्टाचारप्रकरणानां अन्वेषणार्थं सर्वकारेण महत्त्वपूर्णं पदक्षेपं गृहीतम्। मुख्यमन्त्री शुभेन्दु-अधिकारी पूर्वमेव पूर्ववर्तिसर्वकारस्य कालस्य भ्रष्टाचारस्य अन्वेषणार्थं आयोगस्य गठनस्य घोषणा कृतवान् आसीत्। अधुना पञ्चायतविभागस्य मन्त्री दिलीप-घोषः पञ्चायतेषु जातस्य भ्रष्टाचारस्य सञ्चिकाः उद्घाटयितुं वक्तुम् आरब्धवान्।
मङ्गलवासरे प्रातःभ्रमणस्य समये पत्रकारैः सह संवादं कुर्वन् दिलीप-घोषः उक्तवान् यत् पञ्चायतस्य त्रिषु स्तरेषु—ग्रामपञ्चायत्, पञ्चायत्समितिः, जिलापरिषद् च—लेखापरीक्षा कारयिता भविष्यति। सर्वासां परियोजनानां परीक्षणं भविष्यति तथा कुत्रचित् अनियमितता, गड़बड़ी वा अभवत् वा इति निरीक्ष्यते। तेन उक्तं यत् यदि कस्यचित् प्रकारस्य षड्यन्त्रे भ्रष्टाचारे वा कश्चित् संलग्नः दृश्यते तर्हि सः अपि चिह्नितः भविष्यति।
सूत्राणाम् अनुसारं सर्वकारः विशेषरूपेण कटमनी तथा अवैधवसूलीसम्बद्धानाम् आरोपाणां अन्वेषणं कर्तुम् इच्छति। मुख्यमन्त्री पूर्वमपि अस्मिन् विषये कठोरकार्रवाई विषये उक्तवान् आसीत्। अस्य कारणात् अधुना सर्वेषु विभागेषु अन्वेषणप्रक्रिया तीव्रतया प्रचलति।
गतप्रायः सार्धदशवर्षेषु “१००-दिवसकार्यक्रम” सहिताः अनेकाः सामाजिक-विकासपरियोजनाः उपरि विशालधनराशिः व्ययिता अस्ति। अधुना एतत् निरीक्ष्यते यत् एतासु परियोजनासु धनं कथं व्ययितम् तथा प्रत्येकस्मिन् प्रकरणे उपयोगप्रमाणपत्रम् अस्ति वा न वा।
दीर्घकालात् आरोपाः क्रियमाणाः आसन् यत् अनेकासु विकासपरियोजनासु प्रतिनिधिभ्यःअवैधलाभो गृहीता। आरोपः अस्ति यत् अस्मिन् प्रकरणे जनप्रतिनिधिभ्यः आरभ्य विभागस्य कर्मचारीणः अधिकारिणः च संलग्नाः आसन्। लेखापरीक्षया एतेषां प्रकरणानामेव अन्वेषणं क्रियते।
यदि कस्यचित् प्रतिनिधेः भूमिका अनियमिततायां भ्रष्टाचारे वा प्रकाशे आगच्छति तर्हि सः सूचीरहिताःअपि कर्तुं शक्यते। विशेषतः मार्गपरियोजनासु अन्यासु कतिपयविकासपरियोजनासु च अधिकतमाः अनियमिततासम्बद्धाः परिवादाःप्राप्ताः सन्ति। सामाजिकयोजनासु अपि यदि काचित् अनियमितता दृश्यते तर्हि सा अपि लेखापरीक्षायाः परिधौ आनयिता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani