मध्यप्रदेशस्य शहडोल-नगरं प्राप्तः संघप्रमुखः मोहनभागवतः, प्रशिक्षण-शिविरे भागं ग्रहीष्यति
शहडोलनगरम्, २० मे-मासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवतः त्रिदिवसीय-प्रवासे बुधवासरे मध्यप्रदेशस्य शहडोल-नगरं प्राप्तवान्। सः पाण्डव-नगर-स्थिते सरस्वती-शिशु-विद्या-मन्दिरे प्रचलिते संघ-शिक्षा-कार्यकर्ता-विकास-वर्गे स्वयंसेवकै
संघ प्रमुख मोहन भागवत तीन दिन के प्रवास पर शहडोल पहुंचे


शहडोलनगरम्, २० मे-मासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवतः त्रिदिवसीय-प्रवासे बुधवासरे मध्यप्रदेशस्य शहडोल-नगरं प्राप्तवान्।

सः पाण्डव-नगर-स्थिते सरस्वती-शिशु-विद्या-मन्दिरे प्रचलिते संघ-शिक्षा-कार्यकर्ता-विकास-वर्गे स्वयंसेवकैः सह संवादं करिष्यति। सुरक्षा-दृष्ट्या सम्पूर्णे क्षेत्रे कठोर-व्यवस्था कृता अस्ति तथा च प्रत्येकं स्थले आरक्षक-बलं नियुक्तम् अस्ति।

संघस्य प्रचार-विभागस्य अनुसारं सः प्रातःकाले रेलयानेन कटनी-रेलवे-स्थानकं प्राप्तवान्, ततः मार्गेण शहडोलनगरं गतवान्। सः सरस्वती-शिशु-विद्या-मन्दिर-परिसरे २२ मे-मास-पर्यन्तं आयोजिते द्वितीय-वर्षीय-शिक्षा-कार्यकर्ता-विकास-वर्गे भागं ग्रहीष्यति। सः प्रतिदिनं प्रातः सायं च एकैकं सत्रं सम्बोधयिष्यति।

अस्मिन् शिविरे मध्यप्रदेश-छत्तीसगढ़योः प्रायः ३८३ प्रशिक्षणार्थिनः सम्मिलिताः सन्ति। बाह्यजनानां प्रवेशः पूर्णतः निषिद्धः अस्ति।

तस्य सुरक्षादायित्वे जेड-प्लस-श्रेणी-सुरक्षायाः अन्तर्गतं प्रायः ३५० अधिकृत-कर्मचारिणः नियुक्ताः सन्ति, येषु डीएसपी-स्तरीय-अधिकारी, सीआईएसएफ-विशेष-दलानि तथा विभिन्न-जनपदतः आहूतं आरक्षक-बलं च अन्तर्भवति।

जनपदाधिकारिणा डॉ.केदार-सिंहेन उक्तं यत् २० तः २२ मे-मास-पर्यन्तं सम्पूर्णे सरस्वती-शिशु-विद्या-मन्दिर-परिसरे ड्रोन-उड्डयनं भारतीय-नागरिक-सुरक्षा-संहिता २०२३ इत्यस्य धारा १६३ अन्तर्गतं निषिद्धं कृतम् अस्ति।

जनपदारक्षक-अधीक्षकेण रामजी-श्रीवास्तवेन उक्तं यत् सुरक्षा-व्यवस्थायां कापि त्रुटिः न भवेत् इति हेतोः विशेष-सावधानता गृहीता अस्ति तथा सम्पूर्णं क्षेत्रं कठोर-सुरक्षायां स्थापितम् अस्ति।

Hindusthan Samachar / Divya Ranjan