क्रीडामंत्रिणा श्रेयसी सिंहेन विभागीय प्राथमिकतानां प्रमुखपरियोजनानां समीक्षा विहिता
पटना , 20 मईमासः (हि.स.)। बिहारसर्वकारस्य क्रीडामन्त्री श्रेयसीसिंहः बुधवासरे विकासभवने, पटनानगरे, क्रीडाविभागस्य विस्तृतसमीक्षागोष्ठीम् आयोजितवती। उपवेशने क्रीडाविभागस्य कार्यप्रणालीं अधिकसक्रियां, पारदर्शिनीं परिणामोन्मुखीं च कर्तुं विशेषबलं द
खेल मंत्री श्रेयसी सिंह विभाग की समीक्षा बैठक करती हुई


पटना , 20 मईमासः (हि.स.)।

बिहारसर्वकारस्य क्रीडामन्त्री श्रेयसीसिंहः बुधवासरे विकासभवने, पटनानगरे, क्रीडाविभागस्य विस्तृतसमीक्षागोष्ठीम् आयोजितवती। उपवेशने क्रीडाविभागस्य कार्यप्रणालीं अधिकसक्रियां, पारदर्शिनीं परिणामोन्मुखीं च कर्तुं विशेषबलं दत्तम्।

क्रीडामन्त्रिणा निर्देशः प्रदत्तः यत् विभागीयकार्याणां नियमितसमीक्षा प्रत्येकस्मिन् सोमवासरे बुधवासरे च अनिवार्यरूपेण क्रियताम्, येन योजनानां क्रियान्वयने निरन्तरता स्थास्यति तथा विभागीयकार्याणि सुचारुरूपेण सञ्चालितानि भविष्यन्ति।

मन्त्रिणा एकलव्यविद्यालयान् क्रीडाप्रशिक्षणकेन्द्राणि च राज्यस्य क्रीडाप्रतिभानां विकासस्य महत्त्वपूर्णाधाररूपेण निर्दिश्य उक्तं यत् तेषां चयनप्रक्रिया, कैचमेंट-क्षेत्रं, प्रशिक्षणव्यवस्था च नियमितरूपेण निरीक्ष्यन्ताम्। तया निर्देशः दत्तः यत् विभिन्नक्रीडाक्षेत्रेषु प्रतिभाशालिनः क्रीडकाः देशस्य प्रतिष्ठितप्रशिक्षणसंस्थासु अकादमीषु च प्रशिक्षणार्थं प्रेष्यन्ताम्। सहैव राज्यस्य प्रशिक्षकाः अपि अन्यराज्येषु राष्ट्रियसंस्थासु च प्रेष्य उत्कृष्टकार्यप्रणालीनां आधुनिकप्रशिक्षणपद्धतीनां च अध्ययनं कारयितव्यम्।

उपवेशने बांका-जनपदस्थितस्य ओढ़नी-डैम-क्षेत्रे प्रस्तावितायाः जलक्रीडाअकादम्याः तथा जमुई-जनपदे प्रस्तावितायाः शूटिंग-रेञ्ज-परियोजनायाः प्रगतिः अपि समीक्षिता। मन्त्रिणा भवननिर्माणविभागाय सम्बन्धितनिगमाय च निर्देशः दत्तः यत् उभयोः परियोजनयोः विस्तृतमॉडल्-रूपरेखा परियोजनाप्रतिवेदनं च शीघ्रं सज्जीकृत्य वित्तीयस्वीकृतेः अनन्तरं कार्यारम्भः क्रियताम्। तया स्पष्टतया उक्तं यत् परियोजनासु अन्यराज्यानां सर्वोत्तमकार्यप्रणाल्यः आधुनिकक्रीडासंरचनामानकानि च समावेश्यन्ताम्।

क्रीडामन्त्री उक्तवती यत् भारतीयक्रीडाप्राधिकरणस्य (सांई) “सेण्टर ऑफ एक्सीलेंस” इति आदर्शस्य अध्ययनं कृत्वा बिहारराज्ये अपि पर्याप्तक्रीडाविशेषज्ञैः, प्रशिक्षकैः, तकनीकीकर्मिभिश्च सह उत्कृष्टक्रीडाकेन्द्राणि विकसितानि भविष्यन्ति।

तया एतदपि उक्तं यत् देशस्य प्रतिष्ठितक्रीडकान् क्रीडाव्यक्तित्वानि च बिहारराज्येन सह सम्बद्धुं प्रयत्नाः क्रियन्ताम्। विशेषतः राजगीरं राष्ट्रिय-अन्ताराष्ट्रियक्रीडाक्रियाकलापानां प्रमुखकेन्द्ररूपेण विकसितुं बलं दत्तम्, येन प्रसिद्धाः क्रीडकाः अत्र आगत्य प्रशिक्षणेण, संवादेन, प्रचारप्रसारेण च राज्यस्य क्रीडकान् प्रेरयितुं शक्नुयुः।

बैठके क्रीडासंरचनानां संचालन-रक्षणार्थं निर्मितानां विस्तृत-पब्लिक-प्राइवेट-पार्टनरशिप (पीपीपी) इत्यस्य दिशानिर्देशानाम् उपरि अपि चर्चा अभवत्। मन्त्रिणा उक्तं यत् जनपद-प्रखण्डस्तरीयक्रीडासंरचनानां संचालनार्थं निजीभागीदारी प्रोत्साहिता भविष्यति, किन्तु तदर्थं स्पष्ट-स्टैण्डर्ड-ऑपरेटिंग-प्रोसीजर् (एसओपी), समयबद्ध-आवंटन-प्रक्रिया, पात्रतामूल्यांकनप्रणाली च अनिवार्या भविष्यति। तया निर्देशः दत्तः यत् एषः आदर्शः जनपदपदाधिकाऱिणां तेषां समितीनां च निरीक्षणे कार्यान्वितः क्रियताम् तथा एतत् आत्मनिर्भरं दीर्घकालिकं च निर्मीयताम्।

मन्त्रिणा स्पष्टनिर्देशः दत्तः यत् राज्यस्य कस्यापि क्रीडासंरचनायाः उपयोगः अन्यविभागीयकार्येषु अथवा अक्रीडाक्रियाकलापेषु न क्रियते। तया प्रगतियात्रायाः अन्तर्गतं स्वीकृतानां क्रीडापरियोजनानां भूमिसमीक्षायाम् अपि बलं दत्तम् तथा उक्तं यत् भुगतानं कार्यप्रगतिः च कस्यापि स्तरस्य अवरोधेन बाधिता न भवेत्।

उपवेशने बिहारस्य महान् धावकः राज्यस्य प्रथम-ओलम्पियन-प्रतिनिधिः शिवनाथसिंहः सम्मानयितुं महत्त्वपूर्णः निर्णयः अपि कृतः। तया उक्तं यत् शिवनाथसिंहेन १९७६ तथा १९८० ओलम्पिक्-क्रीडासु भारतस्य प्रतिनिधित्वं कृतम् तथा १९७८ तमे वर्षे स्थापितः तस्य मैराथन-राष्ट्रिय-अभिलेखः दशकैः यावत् अक्षुण्णः स्थितः। तस्य जीवनम्, उपलब्धयः, संघर्षाः च नवपीढ्यै परिचयार्थं क्रीडाभवने तस्य जीवनपरिचयः उपलब्धयश्च प्रदर्शिताः भविष्यन्ति।

उपवेशने बिहार-ओलम्पिक्-संघेन २७ सितम्बरतः ३ अक्टोबर २०२६ पर्यन्तं आयोजितानां राज्यक्रीडानां सिद्धतायाः अपि समीक्षा कृता।

---------------

Hindusthan Samachar / Dheeraj Maithani