पूर्व मुख्यमंत्री खंडूड़िणे अंतिमदर्शनं दातुं समुत्पन्नः जनसम्मर्दः, उपराष्ट्रपति, राज्यपालो मुख्यमंत्री च अददात् श्रद्धांजलिम्
देहरादूनम्, 20 मईमासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री भारतीयजनतापक्षस्य वरिष्ठनेता च भुवनचन्द्र खण्डूरी बुधवासरे भावपूर्णवातावरणे अन्तिमदर्शनं दत्वा समादृतः। राजधानी देहरादूनस्थे तस्य वसन्तविहार-निवासे प्रातःकालात् एव श्रद्धाञ्जलिं दातॄणा
उपराष्ट्रपति देहरादून बसंत बिहार स्थित आवास पर बीसी खंडूडी को श्रद्धांजलि देते हुए।


बीसी खंडूडी को राजकीय सम्मान के साथ  अंतिम विदाई देते हुए।


मुख्यमंत्री धामी पार्थिव शरीर को कंधा देते और राज्यपाल पुष्प चक्र अर्पित करते हुए।


मुख्यमंत्री भाजपा मुख्यालय में श्रद्धांजलि देते हुए।


मुख्यमंत्री भाजपा मुख्यालय में श्रद्धांजलि देते हुए।


देहरादूनम्, 20 मईमासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री भारतीयजनतापक्षस्य वरिष्ठनेता च भुवनचन्द्र खण्डूरी बुधवासरे भावपूर्णवातावरणे अन्तिमदर्शनं दत्वा समादृतः। राजधानी देहरादूनस्थे तस्य वसन्तविहार-निवासे प्रातःकालात् एव श्रद्धाञ्जलिं दातॄणां जनानां निरन्तरागमनं प्रचलितम् आसीत्। उपराष्ट्रपतिः सीपी राधाकृष्णन्, राज्यपालः गुरमीतसिंहः, मुख्यमन्त्री पुष्करसिंहधामी च तस्य पार्थिवशरीरे पुष्पचक्रं समर्प्य श्रद्धाञ्जलिं अर्पितवन्तः।

उपराष्ट्रपतिः सीपी राधाकृष्णन् बुधवासरे शोकसंतप्तपरिवारस्य सदस्यैः सह मिलित्वा गभीरसंवेदनाः व्यक्तवान्। तेन दिवङ्गतात्मनः शान्त्यर्थं प्रार्थना कृता। अस्मिन् अवसरे अनेकानां वरिष्ठनेतॄणां नेत्रेषु अश्रूणि दृष्टानि। प्रदेशसर्वकारस्य मन्त्रिणः, विधायकाः, पूर्वसैनिकाः, भाजपा-पदाधिकारिणः, सामाजिकसङ्गठनानां प्रतिनिधयः, विशालसंख्यायां सामान्यजनाश्च स्वप्रियनेतुः अन्तिमनमनार्थं उपस्थिताः अभवन्। सम्पूर्णे परिसरे शोकसंवेदनयोः वातावरणं व्याप्तम् आसीत्।

ततः अनन्तरं पूर्णराजकीयसम्मानेन तस्य पार्थिवशरीरं प्रदेशस्य भाजपा-मुख्यालयं प्रति नीतम्। पार्थिवशरीरेण सह तस्य पुत्रः मनीष खण्डूड़ी तथा पुत्री उत्तराखण्डविधानसभायाः अध्यक्षा ऋतु खण्डूड़ी भूषण च उपस्थिते आस्ताम्। मार्गमध्ये विविधस्थानेषु जनैः पुष्पवृष्ट्या स्वप्रियनेतुः अन्तिमविदायाः सम्मानः कृतः। भाजपा-कार्यकर्तारः समर्थकाश्च हस्तेषु पुष्पाणि धृत्वा सजलनेत्रैः स्वनेतारं विदां कृतवन्तः। अस्मिन् अवसरे भाजपा-कार्यकर्तारः “खण्डूड़ी अमरः भवतु” इति घोषैः सह स्वनेतुः भावपूर्णां विदायां दत्तवन्तः।

ततः अनन्तरं तस्य पार्थिवशरीरं हरिद्वारस्य खड़खड़ी-घाटं प्रति नीतं भविष्यति। अस्य कृते प्रशासनद्वारा सर्वाः व्यवस्थाः सम्पन्नाः कृताः सन्ति। खड़खड़ी-घाटे सुरक्षायाः यातायातव्यवस्थायाश्च विशेषप्रबन्धाः कृताः।

खण्डुरिणः श्रद्धाञ्जलिं समर्प्य मुख्यमन्त्री धामी उक्तवान् यत् मेजर जनरल खण्डूड़ी उत्तराखण्डस्य राजनीतौ ईमानदारी, अनुशासनं, सादगी च इत्यस्य प्रतीकः आसीत्। सार्वजनिकजीवने पारदर्शिता-सुशासनयोः कृते खण्डूड़ी-महोदयस्य प्रयासाः सदैव स्मरणीयाः भविष्यन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यविकासे, मार्गसंयोजने, प्रशासनिकसुधारेषु, जनहितविषयेषु च तेन यानि कार्याणि कृतानि, तानि आगामिपीढीनां कृते प्रेरणास्रोतांसि भविष्यन्ति। तेन उक्तं यत् खण्डूरिणो जीवनं राष्ट्रसेवायै जनसेवायै च पूर्णसमर्पणस्य उदाहरणम् आसीत्।

भाजपा-मुख्यालये मन्त्री खजानदासः खण्डूड़ी-महोदयस्य राजनीतिक-सामाजिक-सैनिकयोगदानानि स्मरन् उक्तवान् यत् राजनीतिक्षेत्रे स्वच्छप्रतिमा नैतिकमूल्यानि च यया प्रकारेण तेन स्थापितानि, सा दीर्घकालं यावत् स्मरणीया भविष्यति। तेन उक्तं यत् उत्तराखण्डस्य भाजपा-पक्षस्य च कृते एषा अपूरणीया क्षतिः अस्ति।

श्रद्धाञ्जलि-कार्यक्रमे विशालसंख्यायां उपस्थितैः स्थानीयजनैः कार्यकर्तृभिश्च दिवङ्गतनेता स्मृतः। तैः उक्तं यत् खण्डूड़ी महोदयः भूमिसम्बद्धः सरलस्वभावस्य च व्यक्तित्वस्य धनी आसीत्। जनैः उक्तं यत् तेन सदैव सामान्यजनानां समस्याः गम्भीरतया श्रुताः तासां समाधानार्थं च प्रयासाः कृताः। विभिन्नैः सामाजिक-व्यापारिक-पूर्वसैनिकसङ्गठनैः अपि पुष्पाञ्जलिं समर्प्य श्रद्धासुमनानि अर्पितानि।

भाजपा-मुख्यालये मन्त्री धनसिंहरावतः, खजानदासः, भरतचौधरी, सांसदः अजयभट्टः, संगठनमहामन्त्री अजयकुमारः, मेयरः सौरभथपलियालः इत्यादयः पक्षस्य अनेकाः वरिष्ठनेतारः, विधायकाः, मन्त्रिणः, कार्यकर्तारश्च श्रद्धाञ्जलिं दातुं उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani