Enter your Email Address to subscribe to our newsletters


केदारनाथ-तीर्थयात्रामार्गे मङ्गलवासर-रात्रौ तीव्रवृष्टेः कारणात् सोनप्रयाग-गौरीकुंड-मार्गे त्रिषु स्थानेषु भूस्खलनं जातम्, येन यात्रा प्रभाविता अभवत्।तथापि जनपदप्रशासनस्य, एनडीआरएफ-एसडीआरएफ-दलानां तथा आरक्षक-बलस्य तत्परतया महद्-आपद् निवारितम्। सहस्राधिकाः श्रद्धालवः सुरक्षितस्थानेषु स्थानान्तरिताः इति प्रशासनेन सूचितम्।
प्रशासनस्य अनुसारं १९ मे-मास-पर्यन्तं ६.९४ लक्षाधिकाः श्रद्धालवः बाबा-केदारनाथ-मंदिर-दर्शनं कृतवन्तः। रात्रौ वर्षायाः कारणात् मार्गे कूटकानां कारणेन यातायातः अवरुद्धः अभवत्।
सूचना प्राप्तमात्रेण एव जनपदाधिकारी विशालमिश्रेण स्थितेः निरीक्षणं प्रारब्धं तथा उद्धार-कार्याणां तीव्रीकरणाय निर्देशाः दत्ताः। रक्षण-दलैः प्रतिकूल-परिस्थितिषु अपि शीघ्रं पदयात्रामार्गः आंशिकतया सुचारुः कृतः। ततः रात्रिपर्यन्तं अभियानं कृत्वा यात्रिणः सुरक्षितस्थानेषु नीताः।
अनन्तरं जेसीबी-यन्त्रैः कूटकानि अपसारितानि, मार्गः पुनः उद्घाटितः च। प्रशासनं सूचितवान् यत् यात्रा अधुना नियन्त्रितरूपेण प्रचलति, तथा च ऋतुस्थितेः निरन्तरं निरीक्षणं क्रियते।
Hindusthan Samachar / अंशु गुप्ता