प्रत्येकं जातेः सम्मानः, सामाजिशिक्षा संस्थानानि वैमनस्यात् विभाजनस्य राजनीतेश्च दूरे स्थापनीयानि: अजय रायः
- काशीहिंदूविश्वविद्यालयस्य स्नातकोत्तर-इतिहासस्य परीक्षायां “ब्राह्मणवादी पितृसत्ता” इव शब्दानां कांग्रेस प्रदेश अध्यक्षः अकरोद्विरोधम् वाराणसी,20 मईमासः (हि.स.)। काशी हिन्दू विश्वविद्यालये देशस्य प्रतिष्ठिते शिक्षणसंस्थाने स्नातकोत्तर-इतिहासपरी
प्रदेश अध्यक्ष अजय राय


- काशीहिंदूविश्वविद्यालयस्य स्नातकोत्तर-इतिहासस्य परीक्षायां “ब्राह्मणवादी पितृसत्ता” इव शब्दानां कांग्रेस प्रदेश अध्यक्षः अकरोद्विरोधम्

वाराणसी,20 मईमासः (हि.स.)। काशी हिन्दू विश्वविद्यालये देशस्य प्रतिष्ठिते शिक्षणसंस्थाने स्नातकोत्तर-इतिहासपरीक्षायां “ब्राह्मणवादी पितृसत्ता” इत्यादीनां शब्दानां यथा प्रश्नरूपेण प्रस्तुतीकरणं कृतम्, तस्य विषये विवादः अधिकं गभीरः भवति। प्रदेशकाङ्ग्रेसाध्यक्षः अजय राय महोदयः बुधवासरे अस्मिन् विषये तीव्रां प्रतिक्रिया व्यक्तवान्।

ते उक्तवन्तः यत् प्रत्येकं जातेः सम्मानः, सामाजिकसमरसता च अस्माकं परिचयः अस्ति। अतः शिक्षणसंस्थानानि द्वेषविभाजनराजनीतेः दूरं स्थापनीयानि। शिक्षायाः उद्देश्यं कस्यचित् जातेः, वर्गस्य, समुदायस्य वा प्रति दुर्भावनां जनयितुं न, अपितु समाजं ज्ञानस्य, संवेदनशीलतायाः, एकतायाश्च दिशि प्रेरयितुम् अस्ति। दुःखदं यत् अद्य शिक्षणसंस्थानेषु अपि एतादृश्यः विचारधाराः आरोप्यन्ते, याः समाजे वैचारिकसंघर्षं जातीयविभाजनं च वर्धयन्ति।

अजय राय महोदयः उक्तवान् यत् भारतस्य सनातनपरम्परायां ब्राह्मणसमाजः सदैव ज्ञानस्य, तपसः, शिक्षायाः, संस्कृतेः, आध्यात्मिकचेतनायाश्च प्रतीकः अभवत्। वेदानां, उपनिषदां, भारतीयदर्शनस्य, संस्कृतसाहित्यस्य, शिक्षाव्यवस्थायाश्च उन्नयने ब्राह्मणसमाजस्य ऐतिहासिकं योगदानं महत्त्वपूर्णम् अस्ति। ब्राह्मणसमाजः सदैव पूजनीयः आसीत्, अस्ति, भविष्यति च। कस्यापि जातेः अपमानं कर्तुं अथवा तां संशयस्य परिधौ स्थापयितुं या मानसिकता, सा भारतीयसंस्कृतेः संविधानस्य च विरुद्धा अस्ति। अद्य निरन्तरं दृश्यते यत् शिक्षणसंस्थानेषु आरएसएस इत्यस्य वैचारिकहस्तक्षेपः वर्धमानः अस्ति।

विश्वविद्यालयेषु, महाविद्यालयेषु, नियुक्तिपरीक्षासु च एतादृशाः प्रश्नाः विषयाश्च समावेश्यन्ते, ये समाजस्य अन्तः जातीयतनावं विरोधाभासं च उत्पादयन्ति। पूर्वं उत्तरप्रदेशस्य दरोगाभर्तीपरीक्षायां ब्राह्मणसमाजं “अवसरवादी” इति निर्दिशन् प्रश्नः पृष्टः आसीत्, यस्मिन् महान् विवादः अभवत्। ततः अनन्तरं “घूसखोर पंडित” नामकचलच्चित्रेण अपि सम्पूर्णस्य वर्गस्य अपमानस्य प्रयासः कृतः, यस्य व्यापकविरोधः अभवत्, अन्ते च चलचित्रनिर्मातारः क्षमायाचनां कृत्वा शीर्षकं प्रत्याहृतवन्तः। अधुना बीएचयू इत्यत्र एतादृशप्रश्नानां प्रस्तुतीकरणं दर्शयति यत् शिक्षाव्यवस्था विशेषवैचारिककार्यसूच्याः अधीनं प्रभावितं क्रियते।

ते उक्तवन्तः यत् शिक्षणसंस्थानानि लोकतान्त्रिकविमर्शस्य, संविधानस्य, सामाजिकन्यायस्य, राष्ट्रियैक्यस्य च केन्द्राणि भवितुमर्हन्ति, न तु राजनीतिकप्रयोगशालाः। ते उक्तवन्तः यत् काङ्ग्रेसपार्टी संविधानस्य, सामाजिकसौहार्दस्य, सर्वेषां वर्गाणां सम्मानस्य च रक्षणार्थं सदैव संघर्षं करिष्यति। वयं अस्य प्रश्नस्य तथा एतादृश्याः मानसिकतायाः प्रबलं विरोधं कुर्मः तथा विश्वविद्यालयप्रशासनात् आग्रहं कुर्मः यत् एषः प्रश्नः तत्क्षणमेव प्रत्याहार्यताम्। सहैव एतदपि सुनिश्चितं क्रियताम् यत् भविष्ये शिक्षणसंस्थानानां उपयोगः कस्यापि राजनीतिकस्य वैचारिकस्य वा कार्यसूच्याः कृते न क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani