Enter your Email Address to subscribe to our newsletters

-प्रतिदिनं 16 लक्षात् अधिकयात्रिणां सुरक्षां सुनिश्चिनोति योगीसर्वकारः
लखनऊ, 20 मईमासः (हि.स.)। उत्तरप्रदेशस्य योगिसर्वकारो मार्गदुर्घटनानां निरोधाय यात्रिकाणां सुरक्षार्थं च निरन्तरं प्रयासान् करोति। अस्यैव क्रमस्य अन्तर्गतं उत्तरप्रदेशराज्यसडकपरिवहननिगमः यात्रिकेभ्यः सुरक्षितां सुगमां च यात्रानुभूतिं दातुं व्यापकस्तरे नवीनतमप्रौद्योगिक्याः उपयोगं करोति। यूपीएसआरटीसी इत्यस्य प्रायः सर्वासां बसयानानां जीवत्समीक्षणं क्रियते, येन प्रतिदिनं एतासु बसयानेषु यात्रां कुर्वतां षोडशलक्षाधिकयात्रिकाणां सुरक्षा सुदृढा भवेत्।
यूपीएसआरटीसी इत्यस्य वरिष्ठाधिकारी बुधवासरे अवदत् यत् प्रदेशे परिवहनव्यवस्थां पूर्णतया डिजिटलरूपेण पारदर्शिरूपेण च निर्मातुं त्रयोदशसहस्रपञ्चशताधिकानि बसयानानिस्थानकानि रेखतयंत्रेण संयोजितानि सन्ति। एतेषां समीक्षणं लखनऊनगरे स्थितात् मुख्यालयस्य कमाण्ड् एण्ड् कन्ट्रोल् सेन्टरात् क्रियते। तेन उक्तं यत् एतेषु बसयानेषु प्रतिदिनं षोडशलक्षाधिकाः जनाः यात्रां कुर्वन्ति। बसयानानां समीक्षणार्थं प्रतिदिनं चतुर्विंशतिघण्टापर्यन्तं मुख्यालयस्य कमाण्ड् सेन्टरं तथा विंशतिः प्रादेशिकसमीक्षणकेन्द्राणि सक्रियाणि भवन्ति।
अस्मात् केन्द्रात् बसयानस्य अतिवेगः, तीव्रारोधकप्रयोगः, तीव्रगत्या बसयानस्य मोडनम्, निर्धारितसीमातः अधिकवेगेन वाहनचालनम्, निर्धारितमार्गः तथा अन्यविषयाः निरीक्ष्यन्ते। अस्य मुख्यालयात् प्रतिदिनं प्रतिवेदनं निर्मीयते तथा दोषः प्राप्ते सति बसयानचालकाय चेतावनी अथवा कार्यवाही सुनिश्चितीक्रियते। अनेन प्रदेशे दुर्घटनासु पर्याप्तरूपेण न्यूनता आनीता।
तेन उक्तं यत् जीवत्समीक्षणेन सह एतेषु बसयानेषु दुर्घटनायाः आपत्कालस्थितेः वा कृते पैनिक् बटनानि अपि स्थापितानि सन्ति। एतेषां प्रयोगमात्रेण एव सूचना यूपीएसआरटीसी कमाण्डकेंद्रं तथा उत्तरप्रदेशपुलिसदलस्य नियन्त्रणकक्षं प्रति अपि प्रेष्यते। ततः अनन्तरं शीघ्रमेव परिचालकेन सम्बद्धविभागैः सह संवादं कृत्वा उचितकार्यवाही क्रियते। यूपीएसआरटीसी इत्यस्य अनुसारं प्रतिदिनं पञ्चसहस्राधिकाः सतर्कतासूचनाः आगच्छन्ति। आवश्यकतानुसारं साहाय्यं प्रदीयते।
यूपीएसआरटीसी इत्यस्य मार्गदर्शीपटले तथा निगमस्य जालपुटे “ट्रैक् माई बस” इत्यस्य माध्यमेन यात्रिकेभ्यः पर्याप्ता सुविधा प्राप्यते। यात्रिकाः बसयानस्य स्थितिं कुत्रापि स्थित्वा जीवद्रूपेण द्रष्टुं शक्नुवन्ति।
Hindusthan Samachar / Dheeraj Maithani