चारधाम यात्रा : हरिद्वार पंजीकरण केंद्रे अधुनापर्यन्तं 2.28 लक्षतः अधिकानां श्रद्धालूनां जातं पंजीकरणम्
हरिद्वारम्, 20 मईमासः (हि.स.)। चारधाम यात्रा यात्रिकाणां सुविधार्थं हरिद्वार नगरे स्थापिते यात्रि-पञ्जीकरण-केन्द्रे बुधवासरे १७८३९ यात्रिकैः स्वपञ्जीकरणं कृतम्। अनेन सह अधुना यावत् अस्मिन् केन्द्रे पञ्जीकरणं कृतवन्तानां संख्या द्विलक्ष-अष्टाविंशत
ऋषि कुल स्थित चार धाम यात्रा पंजीकरण केंद्र


हरिद्वारम्, 20 मईमासः (हि.स.)।

चारधाम यात्रा यात्रिकाणां सुविधार्थं हरिद्वार नगरे स्थापिते यात्रि-पञ्जीकरण-केन्द्रे बुधवासरे १७८३९ यात्रिकैः स्वपञ्जीकरणं कृतम्। अनेन सह अधुना यावत् अस्मिन् केन्द्रे पञ्जीकरणं कृतवन्तानां संख्या द्विलक्ष-अष्टाविंशतिसहस्रात् अधिका अभवत्।

जिलासूचना-कार्यालयस्य अनुसारम् ऋषिकुलक्रीडांगणे स्थिते ऑफलाइन-यात्रि-पञ्जीकरण-केन्द्रे अद्य देशस्य विभिन्न-प्रान्तेभ्यः चारधाम यात्रा कृते आगताः १७८३९ यात्रिकाः स्वपञ्जीकरणं कृतवन्तः। हरिद्वार स्थिते ऋषिकुलक्रीडांगणे स्थापितम् एतत् सर्वसुविधायुक्तं पञ्जीकरण-केन्द्रं १७ एप्रिल-दिनाङ्कात् प्रारब्धम् आसीत्।

अस्मात् यात्रि-पञ्जीकरण-केन्द्रात् अधुना यावत् कुलं द्विलक्ष-अष्टाविंशतिसहस्र-एकशत-एकोनपञ्चाशत् यात्रिकाः स्वपञ्जीकरणं कृत्वा चारधाम यात्रा प्रति प्रस्थितवन्तः। एतेषु पवित्रस्य हेमकुंड साहिब यात्रायाः कृते गच्छन्तः श्रद्धालवः अपि सम्मिलिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani