Enter your Email Address to subscribe to our newsletters


हरिद्वारनगरम्, २० मे-मासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री तथा भारतीय-जनता-पक्षस्य वरिष्ठः नेता भुवनचन्द्रः खण्डूरी बुधवासरे हरिद्वारस्य खड़खड़ी-श्मशान-घाटे पूर्ण-राजकीय-सम्मानैः सह अन्तिमं विदायं प्राप्तवान्।
तस्य पुत्रः मनीष-खण्डूरी मुखाग्निं दत्त्वा अन्त्य-संस्कारस्य विधिं सम्पन्नवान्। अन्तिम-यात्रायां विशालः जनसमूहः समागतः, तथा सर्वे जनाः अश्रुपूर्ण-नयनैः श्रद्धाञ्जलिं अर्पितवन्तः।
अन्त्य-संस्कारात् पूर्वं सेनायाः तथा आरक्षक-बलस्य सैनिकैः गार्ड-ऑफ-ऑनर इति प्रदत्तः, येन दिवङ्गत-नेतुः सैन्य-सम्मानेन अन्तिम-विदायः कृतः।
श्रद्धाञ्जलिं प्रयच्छन् केन्द्रीय-मन्त्री मनोहरलालखट्टरः उक्तवान् यत् खण्डूरी-महाशयस्य जीवनं सरलतायाः अनुशासनस्य तथा सत्यतायाः आदर्शः आसीत्। मुख्यमन्त्री-रूपेण, केन्द्रीय-मन्त्री-रूपेण तथा सैन्य-अधिकारी-रूपेण सः सर्वाणि दायित्वानि निष्ठया निर्वुढवान्।मुख्यमन्त्री पुष्करसिंहः धामी उक्तवान् यत् तस्य निधनं राज्यस्य राष्ट्रस्य च कृते अपूरणीय-क्षतिः अस्ति, सः सर्वेषां कृते प्रेरणास्रोतः भविष्यति।
अस्मिन् अवसरे अनेके पूर्वमुख्यमन्त्रिणः, केन्द्रीय-मन्त्रिणः, विधायकाः, सैन्य-अधिकारिणः तथा सामाजिक-धार्मिक-नेतारः उपस्थिताः आसन्। अन्त्येष्टिकाले सम्पूर्णे क्षेत्रे शोक-भावः व्याप्तः आसीत्।
अतिरिक्तरूपेण उल्लेखनीयम् अस्ति यत् भुवन-चन्द्र-खण्डूरी पूर्वं केन्द्र-सर्वकारे मन्त्री-रूपेण अपि कार्यं कृतवान्, तथा उत्तराखण्ड-राज्यस्य मुख्यमन्त्रीपदं द्विवारं गृहीतवान्।
/ अंशु गुप्ता