उपराष्ट्रपति सीपी राधाकृष्णन् पूर्व मुख्यमंत्रिणे बीसी खंडूरिणे अददात् श्रद्धांजलिम्
नवदिल्ली, 20 मईमासः (हि.स.)।उपराष्ट्रपतिः सीपी-राधाकृष्णन् बुधवासरे देहरादूनम् आगतः, यत्र तेन उत्तराखण्डस्य पूर्व-मुख्यमन्त्रिणः पूर्व-केन्द्रीय-मन्त्रिणश्च बीसी-खण्डूरी-महोदयस्य निवासं गत्वा तस्मै श्रद्धाञ्जलिः अर्पिता। उपराष्ट्रपतिना दिवंगत-नेता
उपराष्ट्रपति सीपी राधाकृष्णन मेजर जनरल बीसी खंडूरी को श्रद्धांजलि देते हुए।


नवदिल्ली, 20 मईमासः (हि.स.)।उपराष्ट्रपतिः सीपी-राधाकृष्णन् बुधवासरे देहरादूनम् आगतः, यत्र तेन उत्तराखण्डस्य पूर्व-मुख्यमन्त्रिणः पूर्व-केन्द्रीय-मन्त्रिणश्च बीसी-खण्डूरी-महोदयस्य निवासं गत्वा तस्मै श्रद्धाञ्जलिः अर्पिता।

उपराष्ट्रपतिना दिवंगत-नेता स्मारयन् उक्तं यत् मेजर-जनरल् बीसी-खण्डूरी असाधारणः नेता, विशिष्टः सैनिकः अनुभवी प्रशासकश्च आसीत्, येन स्वस्य सम्पूर्णं जीवनं राष्ट्रस्य जनतायाश्च सेवायै समर्पितम्।

तेन उक्तं यत् देशे मार्ग-आधारभूत-संरचनायाः सुदृढीकरणे सम्पर्क-सुविधायाः उन्नयने च खण्डूरिणो योगदानं सदा स्मरणीयं भविष्यति। उपराष्ट्रपतेः अनुसारं तस्य कार्यशैली, ईमानदारिता विकासोन्मुख-चिन्तनं च देशस्य विकास-पथे अमिट-विरासत-रूपेण स्थास्यति।

उल्लेखनीयम् अस्ति यत् मेजर-जनरल् बीसी-खण्डूरी-महोदयस्य मङ्गलवासरे प्रातःकाले देहरादूने निधनम् अभवत्। तस्य वयः ९२ वर्षाणि आसीत्। तस्य निधनात् राजनैतिक-सामाजिक-क्षेत्रयोः शोक-लहरी व्याप्ता अस्ति।

बीसी-खण्डूरी भारतीय-सेनायां मेजर-जनरल्-पदे सेवां दत्त्वा अनन्तरं राजनीतिक्षेत्रे आगतः आसीत्, तथा च उत्तराखण्डस्य मुख्यमन्त्रिरूपेण राज्यस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहितवान्। तस्य स्वच्छ-छविः प्रशासनिक-क्षमता च कारणेन तस्मै व्यापकः सम्मानः प्राप्तः आसीत्।---------------------