पूर्वमुख्यमन्त्री भुवनचन्द्रः खण्डूरी पञ्चतत्त्वेषु विलीनः, राजकीय-सैन्य-सम्मानैः सह तस्मै अन्तिम-विदायः प्रदत्तः
हरिद्वारनगरम्, २० मे-मासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री एवं भारतीय-जनता-पक्षस्य वरिष्ठः नेता भुवनचन्द्रः खण्डूरी बुधवासरे हरिद्वार-नगरस्य खड़खड़ी-श्मशान-घाटे पूर्ण-राजकीय-सम्मानैः सह सैन्य-परम्पराभिः च अन्तिम-संस्कारं प्राप्तवान्। तस्य
दिवंगत आत्मा को श्रद्धासुमन अर्पित करते हुए


हरिद्वारनगरम्, २० मे-मासः (हि.स.)। उत्तराखण्डस्य पूर्वमुख्यमन्त्री एवं भारतीय-जनता-पक्षस्य वरिष्ठः नेता भुवनचन्द्रः खण्डूरी बुधवासरे हरिद्वार-नगरस्य खड़खड़ी-श्मशान-घाटे पूर्ण-राजकीय-सम्मानैः सह सैन्य-परम्पराभिः च अन्तिम-संस्कारं प्राप्तवान्।

तस्य पार्थिव-देहः गङ्गा-तटे स्थापितः, यत्र सेनायाः तथा आरक्षक-बलस्य सैनिकैः गार्ड-ऑफ-ऑनर इति प्रदत्तः। तदनन्तरं तस्य पुत्रेण मनीष-खण्डूरी इत्यनेन मुखाग्निः दत्तः, येन अन्त्येष्टि-क्रिया सम्पन्ना।

अन्तिम-यात्रायां विशालः जनसमूहः समागतः आसीत्। सर्वे जनाः अश्रुपूर्ण-नयनैः तस्मै श्रद्धाञ्जलिं दत्तवन्तः।

अस्मिन् अवसरे केन्द्रीय-ऊर्जा-मन्त्री मनोहरलालखट्टरः उक्तवान् यत् खण्डूरी-महाशयस्य जीवनं शुचितायाः अनुशासनस्य सत्यतायाः च प्रतीकम् आसीत्। तेन मुख्यमंत्री-रूपेण, केन्द्रीय-मन्त्री-रूपेण तथा सेनाधिकारी-रूपेण सर्वाणि दायित्वानि पूर्णनिष्ठया निर्वुढानि।

मुख्यमन्त्री पुष्करसिंहः धामी उक्तवान् यत् तस्य निधनं राज्यस्य राष्ट्रस्य च अपूरणीय-क्षतिः अस्ति। सः सदैव प्रेरणास्रोतः भविष्यति इति अपि उक्तम्।

अन्तिम-संस्कार-समये प्रशासनस्य, सैन्यस्य तथा राजनैतिक-क्षेत्रस्य अनेके वरिष्ठाः अधिकारी-नेतारः उपस्थिताः आसन्।

/ अंशु गुप्ता