Enter your Email Address to subscribe to our newsletters

महाराज्ञो भगीरथस्य शोभायात्रायाम् उत्पन्नः आस्थैकतयोः जनसंमर्दः
हरिद्वारम्, 20 मईमासः (हि.स.)।
सैनीसमाजेन (भागीरथीसैनी) आयोजितायां लक्सरक्षेत्रे महाराजभगीरथस्य भव्यशोभायात्रा श्रद्धायाः, संस्कृतेः तथा सामाजिकैक्यस्य अनुपमम् उदाहरणं जातम्। शोभायात्रायां समाजस्य बहुसंख्यकाः जनाः, महिलाः, युवानः तथा बालकाः उत्साहपूर्वकं सहभागित्वम् अकुर्वन्। सम्पूर्णमार्गे भक्तिमयवातावरणम्, जयघोषाः, पारम्परिकवेशभूषाः तथा धार्मिकझाङ्क्यः सर्वेषां मनांसि अमोहयन्।
शोभायात्रायाः शुभारम्भः विधिविधानपूर्वकं पूजार्चनया सह लक्सरस्य पूर्वविधायकः संजयगुप्तः अकरोत्। यात्रायां महाराजभगीरथस्य जीवनम्, तपस्या तथा लोककल्याणकारिकर्माणि दर्शयन्त्यः आकर्षकप्रदर्शिन्यो विशेषाकर्षणस्य केन्द्रम् अभवन्। श्रद्धालुभिः पुष्पवर्षां कृत्वा शोभायात्रायाः स्वागतं कृतम् तथा स्थाने स्थाने जलपानस्य प्रसादवितरणस्य च व्यवस्था अपि कृता।
अस्मिन् अवसरे भाजपादलस्य पूर्वविधायकः संजयगुप्तः अवदत् यत् महाराजराजाभगीरथः भारतीयसंस्कृतेः, त्यागस्य तथा तपस्यायाः महान् प्रतीकः अस्ति। तेन स्वकठोरतपसा अथकप्रयत्नैश्च मातरं गङ्गां स्वर्गात् पृथिव्यां आनय्य मानवतायाः कल्याणस्य मार्गः प्रशस्तीकृतः। तस्य जीवनं समाजाय सेवा, समर्पणम् तथा लोकहितस्य प्रेरणां ददाति। अद्यापि तस्य आदर्शाः जनमानसस्य सत्यधर्ममार्गे गन्तुं प्रेरणां प्रददति।
तेन उक्तं यत् एतादृशानि आयोजनानि समाजं स्वसांस्कृतिकमूलैः सह संयोजयन्ति तथा नवसंततये स्वगौरवशालिनः इतिहासस्य महापुरुषाणां आदर्शानां च परिचयं कारयन्ति। शोभायात्राकाले समाजस्य एकता, अनुशासनम् तथा धार्मिकश्रद्धायाः अद्भुतं दृश्यं दृष्टम्।
शोभायात्रायां सहभागित्वा जनाः स्वान् गौरवान्वितान् अनुभूतवन्तः तथा महाराजभगीरथं श्रद्धया नत्वा प्रणामम् अकुर्वन्। आयोजनस्य समापने समाजस्य वरिष्ठजनाः सर्वेषां सहयोगिनां, श्रद्धालूनां तथा प्रशासनस्य आभारं व्यक्तवन्तः तथा भविष्ये अपि एतादृशानां सामाजिकधार्मिकआयोजनानां निरन्तरं सञ्चालनस्य संकल्पम् अकुर्वन्।
---------------
Hindusthan Samachar / Dheeraj Maithani