असम-विधानसभायाः अधिवेशनम् अद्यतः आरभ्यते, सदसि यूसीसी-विधेयकं प्रस्तोष्यति सर्वकारः
गुवाहाटीनगरम्, २१ मे-मासः (हि.स.)। असम-विधानसभायाः षोडश-सत्रस्य आरम्भः अद्यतः भविष्यति। सत्रस्य प्रथमे एव दिने अद्य विधानसभा-अध्यक्ष-पदस्य निर्वाचनं आयोज्यते। अपरतः मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा-नेतृत्वाधीना सर्वकारः स्वस्य बहुमतं प्रमाणयिष्यति
Assam Assembly असम विधानसभा


गुवाहाटीनगरम्, २१ मे-मासः (हि.स.)। असम-विधानसभायाः षोडश-सत्रस्य आरम्भः अद्यतः भविष्यति। सत्रस्य प्रथमे एव दिने अद्य विधानसभा-अध्यक्ष-पदस्य निर्वाचनं आयोज्यते। अपरतः मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा-नेतृत्वाधीना सर्वकारः स्वस्य बहुमतं प्रमाणयिष्यति। अस्मिन्नेव सत्रे सर्वकारः समान-नागरिक-संहिता (यूसीसी) विधेयकं प्रस्तोष्यति, यस्मिन् विषये सदसि कोलाहलस्य सम्भावना वर्तते। मुस्लिम-विधायकाः यूसीसी-विधेयकस्य विरोधं करिष्यन्ति। उल्लेखनीयं यत् कुलं द्वाविंशति-विपक्षीय-विधायकानां मध्ये विंशति-विधायकाः मुस्लिम-समुदायस्य सन्ति।

उल्लेखनीयं यत् बुधवासरे विधानसभा-अध्यक्ष-पदाय विधायकस्य रञ्जीत-दासस्य समर्थनार्थम् एनडीए-प्रतिनिधिमण्डलेन नामाङ्कन-पत्रं समर्पितम्। मन्त्री अतुल-बोरा, चन्द्रमोहन-पटवारी, विधायकः पीयूष-हजारिका, केशव-महन्तः तथा मानव-डेका संयुक्तरूपेण रञ्जीत-दासस्य नामाङ्कनं प्रस्तुतवन्तः।

अस्मात् पूर्वं वरिष्ठ-भाजपा-नेता चन्द्रमोहन-पटवारी राज्यपालस्य समक्षं प्रोटेम-स्पीकर-रूपेण शपथग्रहणं कृतवान्। तस्य नेतृत्वे अद्य विधानसभायाः प्रारम्भिक-कार्यवाही तथा अध्यक्ष-निर्वाचन-प्रक्रिया सम्पन्ना कारयिष्यते।

अपरतः विधानसभायां प्रतिपक्ष-नेतुः विषयमधिकृत्य अपि राजनैतिक-चञ्चलता तीव्रा अभवत्। स्वातन्त्र्योत्तर-काले प्रथमवारम् असम-विधानसभायां कस्यचित् “मियां”-समुदायस्य नेतुः प्रतिपक्ष-नेता-रूपेण नियुक्तेः चर्चा प्रवर्तते। वाजेद-अली-चौधरी प्रतिपक्षस्य नेता भविष्यतीति सम्भावना व्यक्तीक्रियते।

अस्य विषयस्य कारणेन सत्ता-पक्षस्य विपक्षस्य च मध्ये तीक्ष्णा राजनैतिक-प्रतिक्रिया द्रष्टुं शक्यते।

Hindusthan Samachar / Divya Ranjan