Enter your Email Address to subscribe to our newsletters

काठमाण्डू, २१ मे-मास: (हि.स.)। भारतस्य गृहमन्त्रिणा अमित-शाहेन नेपालस्य प्रसिद्धे पशुपतिनाथ-मन्दिरे चत्वारिंशत्-किलोग्राम-परिमितं चन्दन-काष्ठं अर्पितम्।
मन्दिरस्य नित्य-पूजायाम् उपयोगार्थं मुख्य-पुरोहितस्य गणेश-भट्टस्य उपस्थितौ चन्दन-काष्ठं समर्पितम्। पशुपतिनाथ-मन्दिरस्य मूलभट्टेन उक्तं यत् गृहमन्त्री-अमित-शाहस्य पक्षतः ४० किलोग्राम-परिमितं चन्दन-काष्ठं नित्य-पूजायै मन्दिरे अर्पितम् अस्ति। पुष्य-नक्षत्रस्य अवसरः निमित्तीकृत्य एतत् चन्दन-काष्ठं पशुपति-क्षेत्र-विकास-कोषाय हस्तान्तरितम्।
सः इदम् अपि अवदत् यत् अस्मात् पूर्वम् अपि भारतस्य प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य पक्षतः पशुपतिनाथ-मन्दिरे चन्दन-काष्ठं प्रेषितं भवति स्म। प्रधानमन्त्री-रूपेण तस्य प्रथम-नेपाल-यात्रायां २०१४ तमे वर्षे सः ५० किलोग्राम-परिमितं चन्दनम् अर्पितवान् आसीत्।
Hindusthan Samachar / Divya Ranjan