प्रधानमन्त्रिणः पञ्च-देशीय-यात्रां भाजपा महत्त्वपूर्णं रणनीतिकं च प्रवासम् अवदत्
दिल्ली, २१ मे-मासः (हि.स.)। भारतीय-जनता-पक्षेण (भाजपा) प्रधानमन्त्रिणः नरेन्द्र-मोदिनः पञ्च-देशीय-यात्रा देशस्य कृते “महत्त्वपूर्णः रणनैतिकः च प्रवासः” इति निरूपिता। पक्षेण उक्तं यत् अस्याः यात्रायाः परिणामस्वरूपं भारतस्य व्यापारः, निवेशः, वैश्विक-
केंद्रीय मंत्री पीयूष गोयल


केंद्रीय मंत्री पीयूष गोयल पत्रकार वार्ता को संबोधित करते हुए


दिल्ली, २१ मे-मासः (हि.स.)। भारतीय-जनता-पक्षेण (भाजपा) प्रधानमन्त्रिणः नरेन्द्र-मोदिनः पञ्च-देशीय-यात्रा देशस्य कृते “महत्त्वपूर्णः रणनैतिकः च प्रवासः” इति निरूपिता। पक्षेण उक्तं यत् अस्याः यात्रायाः परिणामस्वरूपं भारतस्य व्यापारः, निवेशः, वैश्विक-सहभागिता च अधिकं सुदृढा अभवत्।

भाजपा-पक्षस्य वरिष्ठ-नेता केन्द्रीय-मन्त्री च पीयूष-गोयल-महोदयः गुरुवासरे पक्ष-मुख्यालये आयोजितायां पत्रकार-वार्तायां उक्तवान् यत् प्रधानमन्त्रिणः विदेश-यात्राभिः भारतस्य व्यापारः, निवेशः, वैश्विक-सहभागिता च सुदृढा जाता। अद्य भारतं विश्वेन सह “सुदृढ-स्थित्या” वार्तालापं करोति तथा च अनेक-देशैः सह आर्थिक-सम्बन्धाः निरन्तरं वर्धिताः सन्ति।

तेन उक्तं यत् एषा केवलम् अन्ताराष्ट्रिय-यात्रा अथवा कूटनीतिक-राजनैतिक-मञ्चस्य कार्यक्रमः नासीत्, अपितु भारतस्य भविष्याय महत्त्वपूर्ण-परिणामान् उत्पादितवती। अस्यां यात्रायां मोदी-महोदयः भारतस्य प्रत्येकं वर्गस्य कृते किञ्चित् लाभकरं समानीतवान्। यात्रायाः निष्कर्षस्य विषये तेन उक्तं यत् संयुक्त-अरब-अमीरात-देशेन ७५ तः १०० बिलियन-डॉलर-पर्यन्तं निवेशस्य प्रतिबद्धता प्रदर्शिता। अस्यां यात्रायां प्रायः ४५ सहस्र-कोटि-रूप्यक-परिमिताः, प्रायः ५ बिलियन-डॉलर-मूल्यकाः निवेश-सम्बद्धाः संकल्पाः पूर्णतया अनुमोदिताः, भारते आगमनाय सज्जाः च अभवन्।

तेन उक्तं यत् प्रधानमन्त्रिणः सम्प्रति पञ्च-देशीय-यात्रायाः समये संयुक्त-अरब-अमीरात-देशेन, नीदरलैण्ड-देशेन, स्वीडन-देशेन, नार्वे-देशेन, इटली-देशेन च सह व्यापार-, रक्षा-, ऊर्जा-, प्रौद्योगिकी-इत्यादिषु अनेक-क्षेत्रेषु सहयोग-विस्तारस्य विषये चर्चा अभवत्।

विपक्षस्य प्रश्नानां विषये गोयल-महोदयः उक्तवान् यत् एकतः सम्पूर्णं विश्वं भारते प्रधानमन्त्रिणि च विश्वासं प्रकटयति, अपरतः राहुल-गान्धी स्व-वक्तव्येषु भाषणेषु च निरन्तरं नकारात्मक-मानसिकतां प्रदर्शयति। तेन उक्तं यत् “भारतस्य जनतया राहुल-गान्धी पुनः पुनः निराकृतः। तस्य हताशा, मानसिकता, प्रधानमन्त्रिणः विरुद्धं प्रयुज्यमाना अपमानजनका भाषा च स्पष्टतया दृश्यते।”

तेन उक्तं, “नक्सलवादस्य समूल-उन्मूलनं किं देशद्रोहः अस्ति? उत काङ्ग्रेस-शासने दीर्घकालं यावत् नक्सलवादस्य पोषणमेव देशद्रोहः आसीत्? काङ्ग्रेस-पक्षः गान्धी-परिवारश्च येन प्रकारेण अवैधप्रवेशकाणां समर्थनं कुर्वन्ति, तत् एव देशद्रोहः अस्ति।”

मन्त्रिणा उक्तं, “वैश्विक-मञ्चे भारतीय-त्रिरङ्गस्य सम्माननं देशद्रोहः अस्ति वा? अथवा विदेशे तिरङ्गस्य अपमाननं देशद्रोहः आसीत्? आतंकवादस्य कटिभङ्गः, आतंकवादिन: प्रति कठोर-प्रत्युत्तर-प्रदानं च देशद्रोहः अस्ति वा? उत आतंकवादिभ्यः बिरयानी-भोजन-प्रदानं तैः सह सन्धि-करणं च देशद्रोहः आसीत्?”

तेन उक्तं यत् राहुल-गान्धिना प्रयुज्यमाना भाषा तस्य दुर्बलतां प्रदर्शयति। तेन उक्तः यत् प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे भारतं विश्वस्य अतिशीघ्र-वर्धमान-अर्थव्यवस्था अभवत् तथा च वैश्विक-स्तरे देशस्य प्रतिष्ठा निरन्तरं वर्धते।

तेन उक्तं यत् पञ्चसु अपि देशेषु मोदी-महोदयस्य भव्यं स्वागतं अभवत्, विविध-कार्यक्रमाः आयोजिताः, मूल-भारतवंशीय-जनैः तस्य सम्माननं कृतम्। भारतं त्रीणि अन्ताराष्ट्रिय-स्तरीय-सम्मानानि अपि प्राप्तवान्। “पञ्च-देशाः, पञ्च-दिवसाः” इति एषः प्रवासः स्पष्टं सन्देशं ददाति यत् भारतं विश्व-पटलस्य उपरि महान् सुदृढतया स्थितम् अस्ति। अद्य सम्पूर्णं विश्वं भारतं विश्वसनीय-सहभागिरूपेण पश्यति।

Hindusthan Samachar / Divya Ranjan