Enter your Email Address to subscribe to our newsletters


कोलकाता, 21 मईमासः (हि.स.)।
पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेंदु अधिकारी पदभारग्रहणानन्तरं प्रथमवारं ऐतिहासिकस्य बेलूडमठदर्शनार्थं गतवान्। मई २०२६ तमे वर्षे मुख्यमन्त्रिपदस्य शपथग्रहणानन्तरं गुरुवासरस्य प्रातःकाले सः रामकृष्ण मठ तथा रामकृष्ण मिशन इत्येतयोः मुख्यालयं प्राप्तवान्। तस्य अस्य भ्रमणस्य कारणात् मठपरिसरे कठोरसुरक्षाव्यवस्था कृता आसीत् तथा श्रद्धालुषु सामान्यजनेषु च विशेषोत्साहः दृष्टः।
राज्यस्य प्रशासनिककार्याणां प्रारम्भात् पूर्वं आध्यात्मिकआशीर्वादप्राप्तिरेव अस्य यात्रायाः मुख्योद्देश्यः आसीत्।
बेलूड़मठं प्राप्य मुख्यमन्त्री प्रथमं मुख्यश्रीरामकृष्णमन्दिरं गतवान्। तत्र तेन श्रीरामकृष्ण परमहंस इत्यस्य प्रतिमायां पुष्पाञ्जलिः समर्पिता तथा पूजा कृता। ततः सः स्वामी विवेकानंद इत्यस्य स्मृतिकक्षं गत्वा श्रद्धापूर्वकं नमनं कृतवान्। अनन्तरं सः स्वामी ब्रह्मानंद मंदिर तथा मां सारदा देवी मंदिर इत्यत्र अपि श्रद्धां समर्पितवान्। मठस्य शान्तवातावरणे किञ्चित्कालं व्यतीत्य मुख्यमन्त्री मठस्य अध्यक्षमहाराजेन सह शिष्टाचारमेलनं कृतवान्। अस्मिन् समये मठस्य वरिष्ठसंन्यासिभिः तस्मै उत्तरीयं परिधाप्य सम्मानः कृतः तथा पवित्रप्रसादः समर्पितः। स्वामी गौतमानंद महाराज राज्यस्य शान्तेः, जनकल्याणस्य, समृद्धेः च कामनां कृत्वा मुख्यमन्त्रिणम् आशीर्वादं दत्तवान्।
माध्यमैः सह संवादे मुख्यमन्त्री उक्तवान् यत् स्वामिविवेकानन्दस्य आदर्शाः तथा रामकृष्णमिशनस्य मानवसेवाभावना समाजाय सदा दिशां प्रददाति। तेन उक्तं यत् राज्यस्य सार्धदशकोटिजनानां सेवायाः या जिम्मेदारी तस्मै प्राप्ता, तां सफलतया निर्वहितुं प्रदेशे शान्तिव्यवस्थां च स्थापयितुं सः अत्र आशीर्वादग्रहणार्थम् आगतः। तेन मठस्य संन्यासिनां तेषां निःस्वार्थसेवाकार्याणां प्रति च गाढकृतज्ञता व्यक्ता।
आध्यात्मिकभ्रमणस्य समाप्तेः अनन्तरं मुख्यमन्त्री प्रत्यक्षरूपेण हावड़ा नगरे आयोजिताय उच्चस्तरीयप्रशासनिकोपवेशनाय प्रस्थितवान्।
Hindusthan Samachar / Dheeraj Maithani