दिल्लीविश्वविद्यालयस्य कुलपतिरकरोत् आईसीसीआर प्रतिनिधिमंडलेन सहोपवेशनम्
नव दिल्ली, 21 मईमासः (हि.स.)। संस्थागतसहयोगस्य सुदृढीकरणस्य उद्देश्येन दिल्ली विश्वविद्यालयस्य कुलपतिः प्रो. योगेश सिंह भारतीय सांस्कृतिक संबंध परिषदः उच्चस्तरीयप्रतिनिधिमण्डलेन सह उपवेशनम्अकरोत्। अस्य प्रतिनिधिमण्डलस्य नेतृत्वं आईसीसीआर इत्यस्
डीयू कुलपति आईसीसीआर के प्रतिनिधिमंडल से मुलाकात करते हुए।


नव दिल्ली, 21 मईमासः (हि.स.)।

संस्थागतसहयोगस्य सुदृढीकरणस्य उद्देश्येन दिल्ली विश्वविद्यालयस्य कुलपतिः प्रो. योगेश सिंह भारतीय सांस्कृतिक संबंध परिषदः उच्चस्तरीयप्रतिनिधिमण्डलेन सह उपवेशनम्अकरोत्।

अस्य प्रतिनिधिमण्डलस्य नेतृत्वं आईसीसीआर इत्यस्य महानिदेशिका के. नंदिनी सिंगला अकरोत्। अस्य उपवेशनस्य मुख्योद्देश्यः अन्ताराष्ट्रियीकरणम्, सांस्कृतिकसंयोजनम्, विद्यार्थिप्रवेशस्य विस्तारश्च प्रवर्धयितुं संस्थागतसहयोगस्य सुदृढीकरणम् आसीत्।

गोष्ठ्याः समये सामूहिकचर्चायां उभाभ्यां संस्थाभ्यां दिल्लीविश्वविद्यालये अधिकसंख्यया अन्ताराष्ट्रियविद्यार्थिनः आकर्षयितुं रणनीतयः चर्चिताः तथा विश्वविद्यालयं वैश्विकप्रियशैक्षणिककेन्द्ररूपेण स्थापयितुं उपायेषु विचारः कृतः। अस्मिन् अन्ताराष्ट्रियविद्यार्थिसंयोजनसम्बद्धविविधपरिस्थितयः तथा सहयोगात्मकपहलाभिः तासां समाधानोपायाः अपि चर्चिताः।

गोष्ठ्याम् आईसीसीआरप्रतिनिधिमण्डले उपमहानिदेशकः डॉ. राजेश रंजन, छात्रवृत्तिनिदेशकः डॉ. संजय वेदी तथा विनोद रानी कपूर सम्मिलिताः आसन्। दिल्लीविश्वविद्यालयस्य प्रतिनिधित्वं कुलपतिना प्रो. योगेशसिंहेन सह रजिस्ट्रारः डॉ. विकास गुप्ता, अन्ताराष्ट्रियसम्बन्धानाम् अध्यक्षा प्रो. नीरा अग्निमित्रा तथा विदेशीछात्रपञ्जीकरणविभागस्य अधिष्ठात्री प्रो. रूपम कपूर अकुर्वन्।

चर्चायाः समये सांस्कृतिककूटनीतेः छात्रकल्याणस्य च महत्त्वे अपि बलं दत्तम्। अस्य सन्दर्भे उभौ पक्षौ विदेशीछात्राणां कृते योगसत्राणां प्रारम्भे सहमतिं प्रदत्तवन्तौ। एतेन सह भारतीयनृत्यसङ्गीतयोः सत्राणि अपि आयोजयिष्यन्ते, येषां उद्देश्यं अन्ताराष्ट्रियविद्यार्थिनः भारतस्य समृद्धसांस्कृतिकविरासतया कल्याणकारीपरम्पराभिश्च गाढरूपेण परिचितान् कर्तुम् अस्ति। अस्याः पहलायाः उद्देश्यं सांस्कृतिकरूपेण समृद्धान् भारतस्य वैश्विकदूतान् निर्मातुम् अस्ति।

अस्मिन् अवसरे कुलपतिना प्रतिनिधिमण्डलाय ऐतिहासिकस्य वाइस रीगल लॉज इत्यस्य भ्रमणम् अपि कारितम्। अस्मिन् समये तेन अस्य प्रतिष्ठितविरासतभवनस्य समृद्धऐतिहासिकसंपदो विषये सूचना सहकृता।

---------------

Hindusthan Samachar / Dheeraj Maithani