नशा-मुक्त-जम्मू-कश्मीर-अभियानम्—एकं जनान्दोलनम्, एकः सङ्कल्पः - लेखिका पूनम-झा
कठुआनगरम्, २१ मे-मासः (हि.स.)। अद्यतनकाले नशा केवलं वैयक्तिकी दुर्व्यसन-प्रवृत्तिः नास्ति, अपितु एषा अस्माकं पुरतः गम्भीरा सामाजिक-मानसिकी-राष्ट्रीय-च समस्यारूपेण उपस्थिता अस्ति। विशेषतया जम्मू-कश्मीर-प्रदेशे नशायाः परिवर्तितं स्वरूपं चिन्तायाः विष
Drug Free Jammu and Kashmir Campaign – A People's Movement, A Resolution


कठुआनगरम्, २१ मे-मासः (हि.स.)। अद्यतनकाले नशा केवलं वैयक्तिकी दुर्व्यसन-प्रवृत्तिः नास्ति, अपितु एषा अस्माकं पुरतः गम्भीरा सामाजिक-मानसिकी-राष्ट्रीय-च समस्यारूपेण उपस्थिता अस्ति। विशेषतया जम्मू-कश्मीर-प्रदेशे नशायाः परिवर्तितं स्वरूपं चिन्तायाः विषयः जातः। “चिट्टा” (हेरोइन) इति घातक-नशायाः वर्धमानः प्रचारः अस्माकं समाजं विशेषतः यूनां तथा अग्रिम-वंशानां भविष्यं तमसि निमज्जयति।

एतत् केवलं स्वास्थ्यस्य विषयः नास्ति, अपितु अस्माकं परिवाराणां सामाजिक-संरचनायाः राष्ट्रीय-सुरक्षायाश्च सम्बद्धः विषयः अस्ति। अद्य स्थितिः एषा अस्ति यत् नशायाः प्रभावे केवलं यूनः एव न, अपितु अल्पवयस्क-बालकाः अपि आगच्छन्ति, यत् समाजस्य कृते गम्भीरा संचेतना अस्ति।

आधुनिककाले नशा-तस्करी-विधयः अपि परिवर्तिताः सन्ति। सीमावर्ती-क्षेत्रेषु ड्रोन-यन्त्रैः नशायाः आपूर्तिः भवति इति एतस्य संकेतः यत् एषा सुनियोजित-षड्यन्त्रस्य अंशः अस्ति। अस्माकं पार्श्ववर्ती-देशेन यूनां जनान् अस्मिन् पङ्के निमज्जयितुं प्रयत्नाः क्रियन्ते, किन्तु एतत् अस्माकं सामूहिकं दायित्वम् अस्ति यत् वयं एतेषां दुष्ट-उद्देश्यानां सफलतां कदापि न अनुमन्यामहे।

जम्मू-कश्मीर-प्रशासनं सर्वकारश्च अस्याः समस्यायाः निवारणार्थं पूर्णतया सक्रियौ स्तः। उपराज्यपालः मनोज-सिन्हा स्वयम् जनपदानां भ्रमणं कृत्वा अधिकारिभ्यः स्पष्ट-निर्देशान् ददाति यत् नशा-मुक्ति-अभियानं भूमिस्तरे प्रभावीरूपेण क्रियते। भारत-सर्वकारेण १५ अगस्तमासे २०२० तमे दिने आरब्धं “नशा-मुक्त-भारत-अभियानम्” अस्मिन् दिशि महत्त्वपूर्ण: प्रयत्न: अस्ति। प्रतिवर्षं २६ जून-दिने “नशा-मुक्ति-दिवसः” आयोज्य समाजे जागरूकता-विस्तारस्य प्रयासः क्रियते। विद्यालयेषु, महाविद्यालयेषु, ग्रामेषु च जागरूकता-कार्यक्रमान् सञ्चालयित्वा यूनां जनानां सम्यक्-दिशा प्रदर्श्यते। आरक्षक-दलं प्रशासनं च संयुक्तरूपेण तस्कराणां विरुद्धं कठोर-कार्यवाही कुर्वन्ति, येन अस्य विषस्य जालं भङ्गं कर्तुं शक्येत।

केवलं सर्वकारस्य प्रयासाः पर्याप्ताः न भवन्ति, यावत् समाजः परिवारश्च अस्मिन् विषये स्वकीयां भूमिकां न निर्वहतः। मातापित्रोः स्वबालकानां सङ्गतिः, व्यवहारः, दिनचर्याया: च विषये विशेष-ध्यानं दातव्यम्। सम्यक्-संस्काराः, मुक्तः संवादः, समुचितं मार्गदर्शनं च एव बालकान् अस्मात् पङ्कात् दूरं स्थापयितुं शक्नोति। परिवारः एव सा प्रथमा संस्था अस्ति यतः जागरूकतायाः सुरक्षायाश्च आरम्भः भवति।

नशा मनुष्यं मानसिक-शारीरिक-रूपेण दुर्बलं करोति। अनेन स्वास्थ्ये गम्भीरः प्रभावः भवति, आर्थिक-स्थितिः दूष्यते, परिवाराः भग्नाः भवन्ति, अपराधः हिंसा च वर्धेते। अत्यन्तं दुःखदः पक्षः एषः यत् नशायाः आसक्तः जनः स्वयम् अपि स्वपरिवारं च पीडयति। कियन्त: गृहाणि विनष्टानि, कियत्य: महिलाः बालकाः च अद्यापि एतां वेदनां सहन्ते। एतत् अवगन्तव्यं यत् नशा एकः व्यसनरोगः अस्ति, किन्तु तस्य उपचारः सम्भवः अस्ति। नशा-मुक्ति-केन्द्राणि, परामर्शः, औषधानां साहाय्यं च स्वीकृत्य जनः पुनः सामान्य-जीवनं प्रति प्रत्यागन्तुं शक्नोति। आवश्यकता केवलं दृढ-सङ्कल्पस्य अस्ति—“यदि सङ्कल्पः दृढः, तर्हि नशातः मुक्ति सम्भवा।”

नशायाः विरुद्धम् एतत् युद्धं केवलं प्रशासनस्य नास्ति, अपितु प्रत्येकं नागरिकस्य अपि अस्ति। यावत् वयं सर्वे मिलित्वा एतद् अभियानं जनान्दोलनं न करिष्यामः, तावत् अस्य पूर्णं समाधानं सम्भवं न भविष्यति।

अस्माभिः स्वस्तरे जागरूकता प्रसारणीया, नशातः दूर-स्थितेः सन्देशः दातव्यः, आवश्यकतानुसारं जनानां साहाय्यं करणीयम्। आगच्छामः, वयं सर्वे मिलित्वा एतत् सङ्कल्पं कुर्मः यत् वयं स्वयम् अपि नशातः दूरं स्थास्यामः तथा स्वपरिवारं, समाजं, अग्रिम-वंशश्च अस्मात् रक्षिष्यामः। स्वस्थं, सुरक्षितं, जागरूकं च जम्मू-कश्मीर-निर्माणमेव अस्माकं लक्ष्यं भवेत्।

“नशा-मुक्त-जम्मू-कश्मीरम्—अस्माकं सर्वेषां स्वप्नम्, अस्माकं सर्वेषां दायित्वम्।”

Hindusthan Samachar / Divya Ranjan