Enter your Email Address to subscribe to our newsletters

छिन्दवाड़ानगरम्, २१ मे-मासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाड़ा-जनपदे जनपद-रोजगार-कार्यालयेन शासकीय-औद्योगिक-प्रशिक्षण-संस्थया च संयुक्तरूपेण युवा-संगम-कार्यक्रमस्य अन्तर्गतं जनपद-स्तरीय-रोजगार-स्वरोजगार-अप्रेन्टिसशिप-मेलापकस्य आयोजनम् अद्य गुरुवासरे प्रातः ११ वादनात् सायं ४ वादनपर्यन्तं क्रियते।
शासकीय-औद्योगिक-प्रशिक्षण-संस्था-छिन्दवाड़ायां आयोजितेऽस्मिन् रोजगार-मेलापके पञ्च निर्माण्यः उपस्थिताः भविष्यन्ति। इच्छुकाः अभ्यर्थिनः स्वस्य रोजगार-कार्यालयस्य जीवित-पञ्जीकरणम्, समग्र-परिचय-पत्रम् (अनिवार्यम्), सम्पूर्ण-प्रमाणपत्राणि तथा जीवन-वृत्तान्तं (रिज्यूमे) इत्येतैः च सह निर्धारित-तिथौ समये च संस्थायां उपस्थाय रोजगार-मेलापकस्य लाभं प्राप्नुयुः।
जनपद-रोजगार-अधिकारिणी माधुरी भलावी इत्यनया उक्तं यत् रोजगार-मेलापके ‘कृष्णा बेल्ट प्राइवेट लिमिटेड्’ सतनूर-संस्थायां ऑपरेटर्-पदाय आईटीआई-डिप्लोमा-धारिणां १८ तः २५ वर्ष-आयुष्मताम् अभ्यर्थिनां कृते १३,७५० तः १४,००० रूप्यकाणां वेतनं निर्धारितम् अस्ति। तथा ‘एमआरएफ टायर्स प्राइवेट लिमिटेड्’ भरूच (गुजरात) इत्यनेन यन्त्र-सञ्चालक-पदाय द्वादश-कक्षा, स्नातकः, आईटीआई तथा डिप्लोमा-धारिभ्यः १८ तः २५ वर्ष-आयुष्मद्भ्यः अभ्यर्थिभ्यः १८,००० तः १९,५०० रूप्यकाणां वेतनं प्रदास्यते।
एतदतिरिक्तं ‘अपोलो टायर्स प्राइवेट लिमिटेड्’ वडोदरा-गुजरात इत्यनेन यन्त्र-सञ्चालकः तथा अप्रेन्टिसशिप-प्रशिक्षु-पदयोः कृते द्वादश-कक्षा, स्नातकः, आईटीआई तथा डिप्लोमा-धारिभ्यः १७,५०० तः १८,५०० रूप्यकाणां वेतनं प्रदास्यते। ‘एजीएस कॉल सेन्टर’ छिन्दवाड़ा इत्यत्र कस्टमर-केयर-एक्जीक्यूटिव-पदाय द्वादश-कक्षा तथा स्नातक-योग्यतायुक्तेभ्यः १८ तः ३० वर्ष-आयुष्मद्भ्यः अभ्यर्थिभ्यः ९,५०० रूप्यकाणां वेतनं निर्धारितम् अस्ति। ‘अम्बुजा फाउण्डेशन प्राइवेट लिमिटेड्’ छिन्दवाड़ा इत्यनेन इलेक्ट्रीशियन-पदाय द्वादश-कक्षा, स्नातकः तथा आईटीआई-योग्यतायुक्तेभ्यः १८ तः ३० वर्ष-आयुष्मद्भ्यः अभ्यर्थिभ्यः १०,००० तः १५,००० रूप्यकाणां वेतनं प्रदास्यते।
Hindusthan Samachar / Divya Ranjan