Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 मईमासः (हि.स.)।केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिन गडकरी उक्तवान् यत् देशे तीव्रगत्या विकसिताः हरितएक्सप्रेसमार्गाः नियंत्रितप्रवेशयुक्तराजमार्गाश्च कारणतः सड़कयात्रायाः स्वरूपं पूर्णतया परिवर्तितम् अस्ति। तेन उक्तं यत् मुम्बईपुणेएक्सप्रेसमार्गस्य निर्माणानन्तरं उभयोः नगरयोः मध्ये विमानसेवाः प्रायः समाप्ताः अभवन्, अधुना देहलीदेहरादून तथा देहलीजयपुरमार्गयोः अपि तादृशी स्थिति उत्पद्यते, यतः सड़कमार्गेण यात्रासमयः अत्यन्तं न्यूनः जातः अस्ति।
नितिन गडकरी अमेरिकनचैम्बरऑफकॉमर्सइनइण्डिया इत्यस्य वार्षिकनेतृत्वसम्मेलने उक्तवान् यत् आधुनिकप्रौद्योगिकी, नवाचारः, अनुसन्धानम्, कौशलम्, सफलकार्यप्रणाल्यश्च भविष्यस्य अर्थव्यवस्थायाः आधारशिलाः सन्ति। तेन उक्तं यत् ज्ञानस्य सम्पत्तौ रूपान्तरणमेव भविष्यस्य महान् आर्थिकमॉडलः अस्ति, भारतम् अपि अस्यां दिशि अग्रे गच्छति।
तेन उक्तं यत् भारतम् अधुना परिपत्रअर्थव्यवस्थायाः दिशि तीव्रगत्या कार्यं करोति, यत्र अपशिष्टं सम्पत्तौ परिवर्त्यते। सड़कपरिवहनमन्त्रालयेन नगराणां पुरातनठोसअपशिष्टस्य उपयोगः सड़कनिर्माणे क्रियते। अद्यावधि नवतिलक्षटनाधिकं ठोसनगरअपशिष्टं सड़कनिर्माणे प्रयुक्तम् अस्ति। तेन सूचितं यत् बायोबिटुमिनविषये सफलम् अनुसन्धानं सम्पन्नम् अस्ति, अधुना पेट्रोलियमबिटुमिनमध्ये त्रिंशत्प्रतिशतपर्यन्तं बायोबिटुमिन मिश्रयितुं शक्यते। एतदतिरिक्तं प्रयुक्तटायरभ्यः प्राप्तस्य पञ्चदशप्रतिशतपरिमितस्य रबरचूर्णस्य सप्तप्रतिशतपरिमितस्य प्लास्टिकस्य च उपयोगः अपि सड़कनिर्माणे क्रियते। तेन उक्तं यत् एतया प्रौद्योगिक्या निर्मिताः मार्गाः सफलाः सिद्धाः सन्ति।
केन्द्रीयमन्त्री उक्तवान् यत् देशस्य प्रमुखचुनौतिषु एका लॉजिस्टिकलागतः आसीत्। पूर्वं भारते लॉजिस्टिकलागतः प्रायः षोडशप्रतिशतपरिमितः आसीत्, किन्तु अधुना सः एकाङ्कपरिमाणे आगतः अस्ति। भारतीयप्रौद्योगिकीसंस्थानबेंगलुरु, कानपुर, चेन्नई इत्येषां नवीनप्रतिवेदनानुसारं देशस्य लॉजिस्टिकलागतेः प्रायः षट्प्रतिशतपर्यन्तं न्यूनता जाता अस्ति। तेन उक्तं यत् हरितराजमार्गाः नियंत्रितप्रवेशयुक्तएक्सप्रेसमार्गाश्च अस्य परिवर्तनस्य प्रमुखकारणम् अस्ति।
तेन उक्तं यत् देहलीदेहरादूनमार्गे पूर्वं अष्टनवघण्टापर्यन्तं समयः लगति स्म, किन्तु नूतनहरितराजमार्गनिर्माणानन्तरं एषा दूरी प्रायः द्विघण्टयोः मध्ये एव पूर्णा भवति। देहलीमुम्बईमार्गे पूर्वं अष्टचत्वारिंशत्घण्टापर्यन्तं समयः आवश्यकः आसीत्, किन्तु एक्सप्रेसमार्गस्य अष्टतिप्रतिशतकार्यसमाप्तेः अनन्तरं एषा यात्रा प्रायः द्वादशघण्टासु सम्भवा जाता। देहलीजयपुरमार्गे यात्रासमयः न्यूनीकृत्य अर्धत्रिघण्टापरिमितः अभवत्। देहलीमेरठमार्गे चतुर्घण्टात्मकयात्रा अधुना पञ्चचत्वारिंशन्मिनिटेषु एव सम्पद्यते। बेंगलुरुमैसूरमार्गे यात्रासमयः साढेत्रिघण्टात् न्यूनीकृत्य प्रायः एकघण्टामात्रः अभवत्।
गडकरी उक्तवान् यत् देशव्यापी षट्त्रिंशत् नियंत्रितप्रवेशयुक्तराजमार्गाः विकसिताः भवन्ति। उत्तरभारतं दक्षिणभारतस्य सह संयोजयितुं विशालसड़कपरियोजनासु कार्यं प्रचलति। देहलीमुम्बईएक्सप्रेसमार्गः सूरतनगरपर्यन्तं संयोज्यते, यतः नासिक, अहमदनगर, सोलापुर, कुरनूल, चेन्नई, बेंगलुरु, कन्याकुमारी, कोच्चि, तिरुवनन्तपुरम् इत्यादीनि नगराणि यावत् नवीनसड़कपरियोजनाः विकसिताः भवन्ति। तेन उक्तं यत् एतासां परियोजनानां सम्पन्नतायाः अनन्तरं देहलीचेन्नईनगरयोः मध्ये दूरी प्रायः त्रिशतचत्वारिंशत्किलोमीटरपर्यन्तं न्यूना भविष्यति।
तेन उक्तं यत् देशे सुरङ्गनिर्माणकार्यं अपि तीव्रगत्या प्रचलति। मनालीतः रोहताङ्गदुर्गपर्यन्तं पूर्वं साढेत्रिघण्टापर्यन्तं समयः लगति स्म, किन्तु सुरङ्गनिर्माणानन्तरं एषा दूरी केवलम् अष्टमिनिटेषु एव पूर्णा भवति। कारगिलक्षेत्रे पञ्च नवीनसुरङ्गानां निर्माणं क्रियते, जोजिलासुरङ्गस्य च प्रायः अष्टतिप्रतिशतकार्यं सम्पन्नम् अस्ति। एषा एशियामहाद्वीपस्य दीर्घतमा सुरङ्गा अस्ति। एतदतिरिक्तं सोनमर्ग तथा श्रीनगरक्षेत्रयोः अपि नवीनसुरङ्गपरियोजनासु कार्यं प्रचलति।
केन्द्रीयमन्त्री उक्तवान् यत् भारतम् जीवाश्मईन्धननिर्भरता न्यूनकर्तुं तीव्रगत्या अग्रे गच्छति। देशः प्रतिवर्षं प्रायः द्वाविंशतिलक्षकोटिरूप्यकाणि जीवाश्मईन्धनआयाते व्ययति, यत् वायुप्रदूषणस्य प्रमुखकारणम् अपि अस्ति। शासनम् एथेनॉल, मेथेनॉल, जैवडीजल, तरलीकृतप्राकृतिकवायुः, विद्युत्, हाइड्रोजन इत्यादिषु वैकल्पिकईन्धनेषु तीव्रगत्या कार्यं करोति।
तेन उक्तं यत् हाइड्रोजन भविष्यस्य ईन्धनम् अस्ति, भारते अस्य कृते अनेकाः प्रायोगिकपरियोजनाः आरब्धाः सन्ति। ग्रेटरनोएडादेहलीआगरा, अहमदाबादवडोदरासूरत, पुणेमुम्बई, जमशेदपुरकलिंगनगर, तिरुवनन्तपुरम्कोच्चि, कोच्चिएर्नाकुलम् इत्यादिषु दशमार्गेषु हाइड्रोजनईन्धनाधारितवाहनानां परीक्षणं प्रचलति। तेन उक्तं यत् टाटा इत्यस्य हाइड्रोजनईन्धनाधारितट्रकाणां परीक्षणम् अपि आरब्धम् अस्ति।
गडकरी उक्तवान् यत् भारतम् अधुना इलेक्ट्रोलाइजरनिर्माणे विश्वस्य अग्रणीदेशेषु सम्मिलितः भवति। शासनस्य लक्ष्यं हाइड्रोजनउत्पादनलागतं प्रतिकिलोग्रामं एकडॉलरपरिमितं कर्तुम् अस्ति। तेन उक्तं यत् कृष्यवशेषात्, जैविकनगरअपशिष्टात्, बायोमासपदार्थेभ्यश्च हाइड्रोजनतथा जैवसीएनजीउत्पादनविषये अपि कार्यं प्रचलति। देहलीनगरस्य परालीदाहजन्यप्रदूषणनिवारणार्थं चतुर्शताधिकाः परियोजनाः आरब्धाः सन्ति, तासु द्विशतपरियोजनासु कार्यम् आरब्धम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani