Enter your Email Address to subscribe to our newsletters

बहराइचम्, 21 मईमासः (हि.स.)।उत्तरप्रदेशस्य बहराइचलोकसभाक्षेत्रस्य विकासाय गुरुवासरे नूतना गतिः प्राप्ता। स्थानीयजनतायाः वर्षानुवर्षं प्रचलितसमस्याभ्यः मुक्तिं दातुं सांसदेन डॉ आनन्दकुमारगोण्डे इत्यनेन कोटिरूप्यकपरिमितानां विकासपरियोजनानां लोकार्पणं कृत्वा ताः जनतायै समर्पिताः।
सांसदनिधेः अन्तर्गतं बहराइचक्षेत्रे आधारभूतसंरचनां सुदृढां कर्तुं सर्वतः कार्यं कृतम्। अस्य अन्तर्गतं कुलम् द्व्यशीतिः परियोजनाः स्वीकृताः आसन्, यासां निर्माणकार्यं सम्प्रति पूर्णतया सम्पन्नम् अस्ति। अस्मिन् वित्तीयवर्षे त्रिकोटिषट्सप्ततिलक्षरूप्यकाणां व्ययेन २०२४-२५ तथा २०२५-२६ इत्येतयोः उभयोः वित्तीयवर्षयोः कुलद्व्यशीतिपरियोजनानां भूमितले अवतरणेन बहराइचजनतायै प्रत्यक्षरूपेण महान् लाभः प्राप्तः।
क्षेत्रे आवागमनं सुगमं कर्तुं मार्गाणां निर्माणम्, जलभरावसमस्यां दूरीकर्तुं नालीनिर्गमनव्यवस्था, सम्पर्कसुधारार्थं पुलिकानिर्माणं च कारितम्। अनेन स्थानीयस्तरे प्रतिदिनं भवन्त्यः समस्याः अधुना स्थायिरूपेण समाप्ताः अभवन्।
सांसदः डॉ आनन्दकुमारगोण्ड उक्तवान् यत् आगामिकाले अपि यत्र यत्र अत्यावश्यकता वर्तते, तेषु क्षेत्रेषु अस्माकं कार्यकर्तॄणां सहयोगेन जनतायाः अपेक्षानुसारं निधेः माध्यमेन विकासकार्याणि कारयितुं सततप्रयत्नः भविष्यति।
Hindusthan Samachar / Dheeraj Maithani