रायपुरे ‘गिफ्ट-तिलापिया-मत्स्यस्य वैज्ञानिक-कृषिः’ इति विषये अद्य राजधानी-नगरे चिन्तन-शिविरम् आयोजितम्
रायपुर-नगरम्, २१ मे-मासः (हि.स.)। समुद्री-उत्पाद-निर्यात-विकास-प्राधिकरणम्, भारत-सर्वकारस्य मत्स्य-पालन-विभागः तथा राष्ट्रीय-मत्स्य-विकास-संघस्य संयुक्त-तत्त्वावधानेन अद्य गुरुवासरे राजधानी-रायपुर-नगरस्य व्हीआईपी-रोड-स्थिते बेबीलॉन-नामके होटल-इत्यत
गिफ्ट तिलापिया मछली


रायपुर-नगरम्, २१ मे-मासः (हि.स.)। समुद्री-उत्पाद-निर्यात-विकास-प्राधिकरणम्, भारत-सर्वकारस्य मत्स्य-पालन-विभागः तथा राष्ट्रीय-मत्स्य-विकास-संघस्य संयुक्त-तत्त्वावधानेन अद्य गुरुवासरे राजधानी-रायपुर-नगरस्य व्हीआईपी-रोड-स्थिते बेबीलॉन-नामके होटल-इत्यत्र प्रातः १० वादनतः एकदिवसीय-चिन्तन-शिविरस्य आयोजनं क्रियते।

शिविरस्य उद्घाटनं कृषि-विकास-कृषक-कल्याण-मन्त्री रामविचार-नेताम-महोदयेन करिष्यते। ‘गिफ्ट-तिलापिया-मत्स्यस्य वैज्ञानिक-कृषिः’ इति विषये केन्द्रिते अस्मिन् शिविरे राज्यस्य अन्तर्देशीय-जल-संसाधनानां निर्यातस्य वैश्विक-श्रृङ्खलया सह संयोजन-विषये विस्तृत-विमर्शः भविष्यति।

छत्तीसगढ-राज्यस्य कृते एतत् गौरवस्य विषयः अस्ति यत् प्रधानमन्त्री-मत्स्य-सम्पदा-योजना-अन्तर्गतं केन्द्र-सर्वकारेण अधिसूचितेषु चतुस्त्रिंशत्-कलस्टर-इत्येतेषु छत्तीसगढप्रदेश: देशस्य एकमात्र-तिलापिया-कलस्टर-रूपेण मान्यतां प्राप्तवान्। वर्षे २०२५-२६ मध्ये भारतस्य समुद्री-उत्पाद-निर्यातः ७२ सहस्र ३२५.८२ कोटि-रूप्यकाणां ऐतिहासिक-स्तरं प्राप्तवान्। अस्य अधिक-वृद्ध्यर्थं तिलापिया-प्रजातीनां वैज्ञानिक-कृषौ विशेष-ध्यानं दीयते।

कार्यक्रमे कृषि-उत्पादन-आयुक्तः तथा सचिवः सिद्धार्थ-कोमल-परदेशी इत्येतै: सह अन्ये वरिष्ठ-अधिकारिणः विशेषज्ञाश्च उपस्थिताः भविष्यन्ति। ते राज्ये मत्स्य-पालनस्य उत्पादन-क्षमता तथा निर्यात-सम्भावनानां विषये मार्गदर्शनं प्रदास्यन्ति।

Hindusthan Samachar / Divya Ranjan