Enter your Email Address to subscribe to our newsletters

शिमला, 21 मईमासः (हि.स.)।
मुख्यमन्त्री सुखविन्द्रसिंहसुक्खूः पूर्वप्रधानमन्त्री राजीवगान्धीस्य बलिदानदिवसे तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः भारतस्य एकता, आधुनिकचिन्तनं तथा लोकतान्त्रिकमूल्येषु राजीवगान्धीस्य समर्पणं स्मरन् उक्तवान् यत् तस्य योगदानं देशस्य विकासे राष्ट्रनिर्माणे च सदैव प्रेरणास्रोतः भविष्यति।
मुख्यमन्त्री उक्तवान् यत् सूचना-प्रौद्योगिकीक्षेत्रे, पञ्चायतीराजव्यवस्थायाः सशक्तीकरणे तथा युवा-भारतस्य सहभागितां सुनिश्चितकर्तुं राजीवगान्धीस्य दूरदर्शिनी चिन्तनशक्तिः देशाय नूतनां दिशां प्रदत्तवती। तस्य नेतृत्वे आरब्धानि बहूनि महत्त्वपूर्णानि पदानि भारतस्य आधुनिकविकासस्य आधारशिलां सुदृढीकृतवन्ति।
तेन उक्तं यत् राष्ट्रनिर्माणस्य प्रति राजीवगान्धीस्य प्रतिबद्धता तथा तस्य प्रगतिशीलचिन्तनं देशः सदैव स्मरिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani