इबोला-रोग-कारणात् भारत-अफ्रीका-शिखर-सम्मेलनं स्थगितम्
नवदिल्ली, २१ मे-मासः (हि.स.)। भारत-अफ्रीकी-संघौ संयुक्त-निर्णयेन अफ्रीका-महाद्वीपस्य केषुचित् देशेषु इबोला-रोगस्य प्रकोपं दृष्ट्वा नव-दिल्ली-नगरे २८ तः ३१ मे पर्यन्तं प्रस्तावितं चतुर्थं भारत-अफ्रीका-फोरम-शिखर-सम्मेलनं स्थगितम्। विदेश-मन्त्रालयेन
भारत-अफ्रीकी शिखर सम्मेलन का लोगो


नवदिल्ली, २१ मे-मासः (हि.स.)। भारत-अफ्रीकी-संघौ संयुक्त-निर्णयेन अफ्रीका-महाद्वीपस्य केषुचित् देशेषु इबोला-रोगस्य प्रकोपं दृष्ट्वा नव-दिल्ली-नगरे २८ तः ३१ मे पर्यन्तं प्रस्तावितं चतुर्थं भारत-अफ्रीका-फोरम-शिखर-सम्मेलनं स्थगितम्।

विदेश-मन्त्रालयेन गुरुवासरे अफ्रीकी-संघेन सह संयुक्त-वक्तव्ये एतत् सूचितम्। वक्तव्ये उक्तं यत् अफ्रीकी-नेतृणां हितधारकाणां च पूर्ण-सहभागिता सुनिश्चितुं महत्त्वं दृष्ट्वा तथा च महाद्वीपे उद्भवमानां सार्वजनिक-स्वास्थ्य-स्थितिं विचार्य एषः निर्णयः कृतः।

उभय-पक्षौ परामर्शानन्तरं अस्मिन् विषये सहमतौ जातौ यत् शिखर-सम्मेलनस्य आयोजनं पश्चात् काले कर्तुं युक्तम् भविष्यति। नूतनाः तिथयः परस्पर-परामर्शेन निर्धारिष्यन्ते तथा उचित-काले घोषिताः भविष्यन्ति।

वक्तव्ये अपि उक्तं यत् उभय-पक्षौ अफ्रीका-महाद्वीपे परिवर्तनशील-स्वास्थ्य-स्थितेः विषये विचार-विनिमयं कृतवन्तौ तथा निरन्तर-सहयोगस्य महत्त्वं पुनः प्रतिपादितवन्तौ। भारत-पक्षेण अफ्रीका-जनानां सरकारान् च प्रति स्वकीयं ऐक्यं पुनः पुष्टम् तथा अफ्रीका-सीडीसी-नेतृत्वाधीन-प्रयासेषु योगदानाय तत्परता अपि व्यक्ता।

उल्लेखनीयम् अस्ति यत् विश्व-स्वास्थ्य-संगठनेन (WHO) इबोला-रोगः हाल-समये “अन्ताराष्ट्रिय-चिन्तायाः सार्वजनिक-स्वास्थ्य-आपातकालः” इति घोषितः, यद्यपि अद्यापि तस्य महामारी-स्तरः न प्रदत्तः। अफ्रीका-महाद्वीपस्य कांगो-युगाण्डा-दक्षिण-सूडान-देशेषु च अस्य रोगस्य अनेक-प्रकरणानि दृष्टानि।

Hindusthan Samachar / Divya Ranjan