Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, २१ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्री भूपेन्द्र-यादवश्च अन्ताराष्ट्रिय-जैव-विविधता-दिवसस्य २०२६-अवसरे इंटरनेशनल-बिग-कैट-एलायन्स (आईबीसीए) पूर्व-सम्मेलन-कार्यक्रमस्य शुक्रवासरे, २२ मे २०२६ दिनाङ्के शुभारम्भं करिष्यतः।
जनसम्पर्क-अधिकारी के.के.जोशी गुरुवासरे उक्तवान् यत् भारतीय-वन-प्रबन्धन-संस्थानस्य (आईआईएफएम) सभागारे भोपाल-नगरे आयोजिते अस्मिन् पूर्व-सम्मेलन-कार्यक्रमे केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-राज्यमन्त्री कीर्ति-वर्धन-सिंहः तथा वन-पर्यावरण-राज्यमन्त्री दिलीप-अहिरवारः विशिष्ट-अतिथिरूपेण उपस्थितौ भविष्यतः। भारत-सर्वकारस्य पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालयेन, राष्ट्रीय-जैव-विविधता-प्राधिकरणेन, मध्यप्रदेश-सर्वकारेण, इंटरनेशनल-बिग-कैट-एलायन्स्-संस्थया तथा भारतीय-वन-प्रबन्धन-संस्थानेन संयुक्त-रूपेण कार्यक्रमस्य आयोजनं क्रियते।
तेन उक्तं यत् मुख्यमन्त्री डॉ.यादवः केन्द्रीय-मन्त्री यादवश्च प्रातः ९:५० वादने वन-विभागेन आयोजितान् २० द्विचक्र-वाहनान् एकं उद्धार-वाहनं च ध्वज-प्रदर्शनेन प्रेषयिष्यतः। कार्यक्रमे जैव-विविधता-संरक्षणस्य, वन्यजीव-संवर्धनस्य विशेषतया बिग-कैट-संरक्षणस्य च विविध-विषयेषु विचार-विमर्शः भविष्यति।
इंटरनेशनल-बिग-कैट-एलायन्स-संस्थायाः महानिदेशकः डॉ.एस.पी.यादवः आईबीसीए-संस्थायाः क्रियाकलापानां उद्देश्यानां च विषये प्रस्तुतीकरणं दास्यति। तेन सह मध्यप्रदेश-वन-विभागेन भारते चीता-पुनर्स्थापन-अभियानस्य विषये विशेष-प्रस्तुतिः अपि प्रदास्यते।
आईईसी-सामग्रीणां विमोचनं भविष्यतिजनसम्पर्क-अधिकारी उक्तवान् यत् कार्यक्रमे जैव-विविधता-संरक्षणयोः सम्बद्धानां अनेक-प्रकाशनानां डिजिटल-प्रयत्नानां च विमोचनं लोकार्पणं च भविष्यति। एतेषु डाक-चिटिका:, ‘इण्डियाज् बायोडायवर्सिटी रिपोर्ट् २०२६’, नागोया-प्रोटोकॉल-विषये भारतस्य प्रथम-राष्ट्रीय-प्रतिवेदनम् तथा एबीएस-एण्ड-टू-एण्ड-वेब-पटलानि च सम्मिलितानि सन्ति। एतस्य सहैव एक्सेस-एण्ड-बेनिफिट-शेयरिंग, अमरकण्टक-जैव-विविधता-धरोहर-स्थलम् तथा मध्यप्रदेशस्य पवित्र-वनानां संरक्षण-विषये आधारितानां चलचित्राणां प्रदर्शनम् अपि भविष्यति।
अनेन आयोजनेन जैव-विविधता-संरक्षणं, पर्यावरण-सन्तुलनं, वन्यजीव-संरक्षणं च प्रति जन-जागरूकता वर्धिष्यते, सहैव अन्ताराष्ट्रिय-स्तरे भारतस्य प्रतिबद्धता अपि प्रमाणिता भविष्यति।
Hindusthan Samachar / Divya Ranjan