मुख्यमंत्रिणः अध्यक्षतायां मध्य प्रदेश राज्य व्यापारी कल्याणपरिसदो गठनम्
भोपालम्, 21 मईमासः (हि.स.)। मुख्यमन्त्रिणो डॉ मोहनयादवस्य अध्यक्षतायां मध्यप्रदेशराज्यव्यापारीकल्याणपरिषदो गठनं कृतम्। भारतसर्वकारेण गठितस्य राष्ट्रियव्यापारीकल्याणपरिषदः उद्देश्यानां पूर्त्यर्थम् इयं परिषदो गठितः अस्ति। अनेन व्यापारीसमुदायस्य कल
सीएम मोहन यादव


भोपालम्, 21 मईमासः (हि.स.)।

मुख्यमन्त्रिणो डॉ मोहनयादवस्य अध्यक्षतायां मध्यप्रदेशराज्यव्यापारीकल्याणपरिषदो गठनं कृतम्। भारतसर्वकारेण गठितस्य राष्ट्रियव्यापारीकल्याणपरिषदः उद्देश्यानां पूर्त्यर्थम् इयं परिषदो गठितः अस्ति। अनेन व्यापारीसमुदायस्य कल्याणार्थम् औद्योगिकनीतिनिवेशप्रोत्साहनविभागेन अन्ताराष्ट्रियव्यापारस्य कृते श्रेष्ठवातावरणनिर्माणं प्रदेशस्य निर्यातवृद्धिश्च साधयितुं शक्यते।

जनसम्पर्काधिकारी राजेशबैनो गुरुवासरे जानकारीं दत्त्वा उक्तवान् यत् समितौ औद्योगिकनीतिनिवेशप्रोत्साहनसूक्ष्मलघुमध्यमोद्यममन्त्री तथा मुख्यमन्त्रिणा नामिताः अधिकतमं दश सदस्याः भविष्यन्ति। अपरमुख्यसचिवः प्रमुखसचिवः सचिवो वा औद्योगिकनीतिनिवेशप्रोत्साहनसूक्ष्मलघुमध्यमोद्यमवाणिज्यिककरवित्तकिसानकल्याणकृषिविकासलोकस्वास्थ्यचिकित्साशिक्षालोकनिर्माणखनिजसाधनऊर्जानवीननवकरणीयऊर्जापशुपालनडेयरीमत्स्यकल्याणमत्स्यविज्ञानप्रौद्योगिकीविमाननकुटीरग्रामोद्योगतकनीकीशिक्षाकौशलविकासरोजगारउद्यानिकीखाद्यप्रसंस्करणपर्यटनविभागानां प्रतिनिधयः तथा मुख्याधिकारी राज्यनीतिआयोगः क्षेत्रीयप्रमुखः भारतीयरिजर्वबैंकऑफइण्डिया क्षेत्रीयाधिकारी नेशनलहाईवेअथॉरिटीऑफइण्डिया वरिष्ठप्रबन्धकः भारतीयकन्टेनरनिगमः सीजीएम नाबार्ड शाखाप्रबन्धकः ईसीजीसी एक्जीमबैंक क्षेत्रीयप्रमुखः एपिडा आयुक्तः एफएसएसएआई सीईओ राज्यग्रामीणआजीविकामिशन च आधिकारिकसदस्याः भविष्यन्ति।

मुख्यकार्यकारी अधिकारी अटलबिहारीवाजपेयीसुशासननीतिविश्लेषणसंस्थानस्य सञ्चालकः आरसीवीपीनरोन्हाप्रशासनप्रबन्धकीयअकादम्याः संस्थायाः पदेनसदस्यौ नियुक्तौ। राज्यप्रमुखाः सीआईआई फिक्की फिओ डिक्की लघुउद्योगभारती तथा अन्यराज्यस्तरीयव्यापारसमितयः सङ्घाश्च शीर्षचेम्बर्स इत्येभ्यः पदेनसदस्यत्वेन मनोनीताः। प्रबन्धसञ्चालकः मध्यप्रदेशइण्डस्ट्रियलडेव्हलपमेण्टकार्पोरेशन भोपाल इत्यस्य सदस्यसचिवरूपेण नामनिर्देशः कृतः।

अध्यक्षस्य अनुमत्याः आधारेण मध्यप्रदेशराज्यव्यापारीकल्याणबोर्डे आवश्यकतानुसारं संशोधनं कर्तुं शक्यते। जिल्लास्तरीयसमितेः डीएलसी गठनं कार्यक्षेत्रनिर्धारणं च सदस्यसचिवेन प्रस्तावितं समन्वयेन अनुमोदनानन्तरं क्रियते।परिषदः पंचांगवर्षे चतुर्वारं तन्नाम प्रतित्रिमासे एकवारम् आयोजिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani