Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ मे-मासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्रिणा नितिन्-गडकरी-महोदयेन उत्तरप्रदेशे ११,६७२ किलोमीटर-परिमितानां राष्ट्रीय-राजमार्गाणां गुणवत्ता-रक्षण-पोषणयोः प्रगतिः समीक्षिता। अस्यां सभायां गडकरी-महोदयेन समयबद्ध-क्रियान्वयनस्य, गुणवत्ता-मानकानां कठोरतया पालनस्य, उन्नत-प्रौद्योगिकीनां च स्वीकरणस्य उपरि विशेषं बलं प्रदत्तम्।
सड़क-परिवहन-राजमार्ग-मन्त्रालयेन उक्तं यत् माध्यमेषु सामाजिक-माध्यमेषु च प्राप्त-प्रतिपुष्ट्याः आधारेण गुरुवासरे अत्र आयोजितायां समीक्षा-सभायां केन्द्रीय-राज्यमन्त्री अजय-टम्टा, हर्ष-मल्होत्रा च, एनएचएआई, एनएचआईडीसीएल, सड़क-परिवहन-मन्त्रालयस्य अधिकारिणः, परियोजना-ठेकेदाराश्च सम्मिलिताः आसन्।
गडकरी-महोदयेन सभायां समयबद्ध-क्रियान्वयनस्य, गुणवत्ता-मानकानां कठोर-पालनस्य, उन्नत-प्रौद्योगिकीनां स्वीकरणस्य च महत्त्वं प्रतिपादितम्, येन राजमार्ग-संरचना स्थायिनी कार्यक्षमा च भवेत्। तेन उक्तं यत् सुदृढः मार्ग-जालः सम्पर्क-विस्ताराय, आर्थिक-विकासस्य गतिवर्धनाय, यात्रिकाणां सुविधासुधाराय च अत्यन्तम् आवश्यकः अस्ति।
तेन अधिकारिणः निर्देशिताः यत् वर्षाकालस्य पूर्वतयारी व्यापक-रूपेण सुनिश्चितीक्रियेत। एतदर्थं प्रतिषेधात्मक-उपायानां कार्यान्वयनस्य, प्रभावी-प्रतिक्रिया-तन्त्रस्य स्थापनायाश्च उपरि बलं प्रदत्तम्, येन सम्पूर्णे जाले सड़क-सुरक्षा स्थायित्वं च संरक्षितं भवेत्।
Hindusthan Samachar / Divya Ranjan