Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 मईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् अस्माकं मातृभूमिः साधनायाः उपासनायाश्च सह साहसस्य शक्तेः सर्वकल्याणस्य च पुण्यभूमिः अभवत्। तेन कामना कृता यत् महान् विरासत् तथा प्राचीना संस्कृत्या युक्ता एषा पवित्रा धरती सर्वान् सदा सुखसमृद्ध्या परिपूर्णान् करोतु।
प्रधानमन्त्री मोदी गुरुवासरे एक्स इत्यस्मिन् एकं संस्कृतसुभाषितं सहकृतवान्
“यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ।।”
अस्य सुभाषितस्य अर्थः अस्ति यत् यस्यां पवित्रायां भूमौ अस्माकं पूर्वजाः महानि कार्याणि अकुर्वन्, यस्यां देवाः असुरान् पराजितवन्तः, या भूमिः गवाम् अश्वानां पक्षिणां च समस्तजीवानां आश्रयभूमिः अस्ति, सा पृथिवी अस्मभ्यं ऐश्वर्यं सौभाग्यं तेजः समृद्धिं च ददातु।
प्रधानमन्त्री अवदत् यत् एतत् अस्माकं मातृभूमेः महानतां समृद्धिं दिव्यतां च वर्णयति। एषा भूमिः केवलं आध्यात्मिकसाधनायाः एव न, अपितु पराक्रमस्य शक्तेः लोककल्याणस्य च आधारभूमिः अपि अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani