राजनाथ सिंहः सियोलस्य इमजिनगैकोद्याने भारतीय युद्ध स्मारकस्य कृतवान् उद्घाटनम्
- कोरियाई युद्धस्य 75तमायाः वर्षगंथेः उपलक्ष्ये निर्मितं स्मारकमिदम् नवदिल्ली, 21 मईमासः(हि.स.)। दक्षिणकोरियादेशस्य यात्रायाः अन्तिमदिने रक्षामन्त्री राजनाथ सिंह गुरुवासरे सियोलनगरस्य इमजिनगैक पार्क इत्यत्र भारतीययुद्धस्मारकस्य उद्घाटनम् अकरोत्। र
सियोल में भारतीय युद्ध स्मारक के उद्घाटन समारोह को संबोधित करते राजनाथ सिंह


- कोरियाई युद्धस्य 75तमायाः वर्षगंथेः उपलक्ष्ये निर्मितं स्मारकमिदम्

नवदिल्ली, 21 मईमासः(हि.स.)। दक्षिणकोरियादेशस्य यात्रायाः अन्तिमदिने रक्षामन्त्री राजनाथ सिंह गुरुवासरे सियोलनगरस्य इमजिनगैक पार्क इत्यत्र भारतीययुद्धस्मारकस्य उद्घाटनम् अकरोत्। रक्षामन्त्री स्वसम्बोधने कोरियाईप्रायद्वीपे शान्तेः मानवीयसहायतायाश्च क्षेत्रे भारतस्य अमिटयोगदानस्य चर्चा अकरोत्। तेन उक्तं यत् उभयोः देशयोः सहकारी इतिहासः बलिदानं च भारतकोरियाविशेषरणनीतिकसाझेदारीस्य सुदृढां आधारशिलां निर्माति।

रक्षामन्त्रिणा राजनाथसिंहेन सह दक्षिणकोरियादेशस्य पूर्वसैनिककार्यमन्त्री क्वोन ओह-यूल अपि भारतीययुद्धस्मारकस्य उद्घाटनसमारोहे सहभागी अभवत्। एतत् स्मारकं कोरियाईयुद्धस्य पञ्चसप्ततितमवार्षिकोत्सवस्य उपलक्ष्ये निर्मितम् अस्ति, येन युद्धकाले भारतीयसेनायाः ६० पैराफील्डसंबद्धरोगिवाहनस्य तथा कस्टोडियनफोर्सऑफइण्डिया इत्येतयोः साहसस्य, बलिदानस्य, मानवीयसेवायाश्च श्रद्धाञ्जलिः अर्प्यते। उभौ मन्त्रिणौ स्मारके पुष्पाञ्जलिं समर्प्य तान् वीरभारतीयसैनिकान् श्रद्धाञ्जलिं दत्तवन्तौ, येषां सेवा कोरियागणराज्यस्य जनैः अद्यापि गाढसम्मानेन कृतज्ञतया च स्मर्यते।

राजनाथसिंहः उक्तवान् यत् भारतीयसैनिकानां भूमिकायाः स्मरणेन जनानां मध्ये पारस्परिकसमझदारी सुदृढा भवति तथा उभयोः देशयोः ऐतिहासिकसम्बन्धेषु पुनः ध्यानं आकर्ष्यते। स्मारकस्य स्थापनायां बहुमूल्यसहयोगाय तेन कोरियागणराज्यस्य शासनस्य, विशेषतः पूर्वसैनिककार्यमन्त्रालयस्य प्रति गाढकृतज्ञता व्यक्ता।

दक्षिणकोरियादेशस्य पूर्वसैनिककार्यमन्त्री कोरियाईयुद्धकाले भारतस्य भूमिकायाः प्रशंसाम् अकरोत्। कोरियाईयुद्धे सहभागिनः सैनिकान् सम्मानयितुं तेषां मध्ये आदानप्रदानं सुदृढं कर्तुं च उभाभ्यां मन्त्रिभ्यां एकस्मिन् समझौताज्ञापने हस्ताक्षरं कृतम्। सैनिकानां निःस्वार्थबलिदानस्य स्मृत्यर्थं संस्मरणग्रन्थः अपि प्रकाशितः।

कोरियाईयुद्धकाले लेफ्टिनेंटकर्नलः (डॉ.) एजी रंगराज इत्यस्य नेतृत्वे ६० पैराफील्डएम्बुलेंस इत्यनेन भीषणगोलीवर्षायां सहस्रशः आहतसैनिकानां नागरिकानां च उत्कृष्टचिकित्सासेवा उपचारश्च प्रदत्तः, येन व्यापकप्रशंसा प्राप्ता। तेषां अद्वितीयसाहसस्य मानवीयदृष्टिकोणस्य च कारणात् घायलसैनिकैः नागरिकैश्च ‘मरून एंजल्स’ इति उपाधिः प्रदत्ता।

१९५३ तमे वर्षे कोरियाईयुद्धविरामसहमतये हस्ताक्षरानन्तरम् अपि भारतेन कस्टोडियनफोर्सऑफइण्डिया इत्यस्य माध्यमेन महत्त्वपूर्णा भूमिका निर्वाहिता, यस्मै तटस्थराष्ट्रप्रत्यावर्तनआयोगस्य अन्तर्गताः दायित्वानि समर्पितानि आसन्।

भारतीययुद्धस्मारकस्य निर्माणं तस्मिन्नेव क्षेत्रे कृतम्, यत्र १९५४ तमे वर्षे सेप्टेम्बरमासे कस्टोडियनफोर्सऑफइण्डिया इत्यनेन ‘हिंदनगर’ इत्यस्य स्थापना कृता आसीत्, यस्मिन् प्रायः द्वाविंशतिसहस्राणि युद्धबन्दिनः तेषां शान्तिपूर्णप्रत्यावर्तनपर्यन्तं स्थापिताः आसन्। एषा परियोजना भारतशासनस्य रक्षामन्त्रालयस्य आर्थिकसहयोगेन आरब्धा अस्ति।

समारोहे उभयोः देशयोः वरिष्ठाधिकारिणः, सैन्यप्रतिनिधयः, पूर्वसैनिकाः, राजनयिकसमुदायस्य सदस्याः, विशिष्टातिथयश्च उपस्थिताः आसन्। भारतीययुद्धस्मारकस्य उद्घाटनेन सह रक्षामन्त्री वियतनामदक्षिणकोरियादेशयोः स्वीयां चतुर्दिवसीययात्रां समाप्तवान्।------------

Hindusthan Samachar / Dheeraj Maithani