Enter your Email Address to subscribe to our newsletters

हुगली, 21 मईमासः (हि.स.)।
असर्वकारीसंस्था श्रीनारायणसेवासंस्थानम् चैरिटेबलट्रस्ट इत्यस्याः पक्षतः पुरुषोत्तममासस्य अवसरे श्रीमद्भागवतकथासप्ताहज्ञानयज्ञस्य आयोजनं १७ मईतः २३ मई २०२६ पर्यन्तं महेश्वरीभवनस्य चतुर्थतले कृतम् अस्ति। कार्यक्रमं प्रति श्रद्धालुषु विशेषः उत्साहः दृष्टः।
आयोजनस्य अन्तर्गतस्य गुरुवासरे अपराह्णे २:३० वादनात् सायं ६:३० वादनपर्यन्तं श्रीमद्भागवतकथायाः आयोजनं कृतम्, यस्मिन् श्रद्धालवः कथाश्रवणं कृत्वा पुण्यलाभं प्राप्तवन्तः।
कार्यक्रमे मुख्ययजमानरूपेण ललितासिंह उपस्थितवती। तथा मुख्यातिथिरूपेण भागवतकाबरा, शशिसिंहझा, मनोजसिंह, महाबीरपसारी, रामअवतारमालिनी, लालचन्दपारीख, दामोदरझंवर, आनन्दभाबड़ा, बिनोदखेमका तथा शरदगौतम सहिताः अनेके गणमान्यजनाः उपस्थिताः आसन्।
संस्थायाः संस्थापकः अजयसिंहः सर्वेषां श्रद्धालूनां सहयोगिनां च प्रति आभारं व्यक्तीकृतवान् तथा उक्तवान् यत् समाजस्य सहयोगेन एव एतादृशाः धार्मिकसामाजिककार्यक्रमाः सफलाः भवन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani