भारतीय-महिला-क्रिकेट-दलं विश्वकप-विजयम् अभ्यस्तुं इच्छति - हरमनप्रीत-कौरः
दिल्लीनगरम्, 21 मे-मास: (हि.स.)। भारतीय-महिला-क्रिकेट-दलस्य नायिका हरमनप्रीत-कौरः अन्ताराष्ट्रिय-क्रिकेट-परिषदः (आईसीसी) महिला-टी-20 विश्वकपात् पूर्वं महद्-वक्तव्यं दत्त्वा उक्तवती यत् भारतीय-दलं अधुना केवलम् एकवारं विश्वकपं विजित्य सन्तुष्टः न भवि
भारतीय कप्तान हरमनप्रीत कौर


दिल्लीनगरम्, 21 मे-मास: (हि.स.)। भारतीय-महिला-क्रिकेट-दलस्य नायिका हरमनप्रीत-कौरः अन्ताराष्ट्रिय-क्रिकेट-परिषदः (आईसीसी) महिला-टी-20 विश्वकपात् पूर्वं महद्-वक्तव्यं दत्त्वा उक्तवती यत् भारतीय-दलं अधुना केवलम् एकवारं विश्वकपं विजित्य सन्तुष्टः न भवितुम् इच्छति, अपितु विश्वकप-विजयं स्वस्य अभ्यासनम् कर्तुम् इच्छति।

हरमनप्रीतेन उक्तं यत् आईसीसी महिला-क्रिकेट-विश्वकपः 2025 इति विजयः भारतीय-महिला-क्रिकेटस्य कृते ऐतिहासिकः क्षणः आसीत्। सा अवदत् यत् एषः केवलं एकः ट्रॉफी-विजयः नासीत्, अपितु अनेन देशस्य युवतिभ्यः इदं विश्वासं दत्तं यत् ताः अपि विश्वस्य बृहत्तमं मंचं प्राप्तुं शक्नुवन्ति। सा गुरुवासरे आईसीसी-सम्बद्धेन उक्तवती— “2025 विश्वकप-विजयः अस्मान् आत्मविश्वासं दत्तवान्, किन्तु सः केवलम् आरम्भः आसीत्। अधुना अस्माकं प्रयत्नः अस्ति यत् विजयः अस्माकं परिचयः भवेत्। तस्य सफलतायाः पश्चात् उत्तरदायित्वानि अपेक्षाः च वर्धिताः सन्ति। चिन्ता अस्ति, किन्तु सा सकारात्मकी चिंता अस्ति।”

भारतीय-नायिका अवदत् यत् दलं टी-20 विश्वकप-इत्यस्य सज्जतां 2025 विश्वकप-विजयस्य अनन्तरम् एव आरब्धवान्। सा उक्तवती यत् श्रीलङ्का-ऑस्ट्रेलिया-दक्षिण-अफ्रीका-देशैः सह सम्प्रति सम्पन्नाः टी-20 शृङ्खलाः दलाय स्व-दुर्बलतानां शक्तीनां च अवबोधनाय अवसरं दत्तवत्यः।

हरमनप्रीतेन दल-प्रबन्धनस्य बीसीसीआई-संस्थायाः च सज्जताप्रयासाः प्रशंसिताः। सा अवदत् यत् बेंगलूरु-नगरे स्थिते “सेंटर ऑफ एक्सीलेंस” इत्यस्मिन् आयोजितैः प्रशिक्षण-शिविरैः दलं महत् लाभं प्राप्तवान्।

सा उक्तवती— “अस्माकं दले अनुभविनां तथा युवा-क्रीडकाणां उत्तमं सन्तुलनम् अस्ति। खिलाडिषु निर्भीकता तथा विजय-तृष्णा अपि वर्तते। महिलाप्रीमियरस्पर्धा (डब्ल्यूपीएल) भारतीय-महिला-क्रिकेट-क्रीडायै नूतना दिशा दत्तवती। एषा स्पर्धा नूतना: क्रीडका: बृहन्मञ्चे क्रीडनस्य तथा चिन्ता वहनस्य अनुभवम् अयच्छत्।”

हरमनप्रीतेन 2017 विश्वकपस्य स्मरणम् अपि कृतम्, यदा तस्याः 171-धावनांकस्य पर्याय: भारतीय-महिला-क्रिकेट-क्रीडायै नूतनं परिचयं दत्तवती। सा अवदत् यत् 2017 विश्वकप तस्याः जीवनस्य महत्त्वपूर्णः आसीत्।

अन्ते सा उक्तवती यत् दलस्य लक्ष्यं निरन्तरं उत्तम-प्रदर्शनं कृत्वा भारतीय-महिला-क्रिकेट नूतन-उच्चतासु नेतुम् अस्ति।

Hindusthan Samachar / Divya Ranjan