देशे २४ मे-मासे अष्ट-सहस्र-स्थानेषु भविष्यति ‘फिट-इण्डिया-सण्डे-ऑन-द्विचक्रिका’ इत्यस्य पञ्चसप्ततितमं विशेष-संस्करणम्
नवदेहली, २१ मे-मास: (हि.स.)। गुजरात-प्रदेशे २०३० तमे वर्षे आयोजितव्यस्य शततमस्य ‘कॉमनवेल्थ-गेम्स’-क्रीडायाः पूर्व-सज्जां तथा देशे क्रीडा-संस्कृतेः संवर्धनं च दृष्ट्वा ‘फिट-इण्डिया-सण्डे-ऑन-द्विचक्रिका’ इत्यस्य पञ्चसप्ततितमं विशेष-संस्करणं २४ मे-मास
केंद्रीय युवा कार्यक्रम एवं खेल मंत्री मनसुख मांडविया


नवदेहली, २१ मे-मास: (हि.स.)। गुजरात-प्रदेशे २०३० तमे वर्षे आयोजितव्यस्य शततमस्य ‘कॉमनवेल्थ-गेम्स’-क्रीडायाः पूर्व-सज्जां तथा देशे क्रीडा-संस्कृतेः संवर्धनं च दृष्ट्वा ‘फिट-इण्डिया-सण्डे-ऑन-द्विचक्रिका’ इत्यस्य पञ्चसप्ततितमं विशेष-संस्करणं २४ मे-मासे देशव्यापकरूपेण आयोजितं भविष्यति। अस्मिन् अभियाने अष्ट-सहस्राधिकेषु स्थानेषु साइकिल-रैलयः तथा फिटनेस-कार्यक्रमाः आयोजिताः भविष्यन्ति।

मुख्य-आयोजनं कॉमनवेल्थ-क्रीडाया: आयोजक-नगरं गुजरात-प्रदेशे अहमदाबाद-नगरे साबरमती-नदी-तट-प्रान्ते भविष्यति, यत्र केन्द्रीय-युवा-कार्यक्रम-खेलमन्त्री मनसुख-मण्डावियः कार्यक्रमस्य नेतृत्वं करिष्यति। तेन सह गुजरात-उपमुख्यमन्त्री हर्ष-संघवी अपि उपस्थितः भविष्यति। ‘ए न्यू आइकॉन फॉर ए फिट्टर इण्डिया – पेडलिंग टू २०३०’ इति थीम-आधारिते अस्मिन् कार्यक्रमे सहस्राधिकाः साइकिल-चालकाः, क्रीडकाः, युवा-स्वयंसेवकाः तथा फिटनेस-प्रेमिणः भागं ग्रहीष्यन्ति।

मण्डाविया उक्तवान् यत् २०३० तमे वर्षे कॉमनवेल्थ-क्रीडा-आयोजनं भारतस्य गौरवस्य विषयः अस्ति तथा एषः कार्यक्रमः देशे क्रीडा-संस्कृतेः सुदृढीकरणाय माध्यमं भविष्यति। सः अवदत् यत् अस्य अभियाने मुख्य-उद्देश्यं युवान् फिटनेस-क्रीडाभिः सह संयोजयितुम् अस्ति। कार्यक्रमे अभिनेता आयुष्मान-खुराना इत्यनेन सह विभिन्न-अन्ताराष्ट्रिय-तथा-कॉमनवेल्थ-पदक-धारिणः क्रीडकाः अपि भागं ग्रहीष्यन्ति।

अस्मिन् कार्यक्रमे हॉकी-क्रीडकाः रजनी-एतिमार्पु, गुरजीत-कौर:, सोनिका-टाण्डी, निशानेबाजः अंकुर-मित्तलः, अंजुम-मौद्गिलः तथा बैडमिण्टन-क्रीडकाः तृप्ति-मुर्गुण्डे इत्यादयः सम्मिलिताः भविष्यन्ति।

देशव्यापकरूपेण राज्येषु तथा केन्द्र-शासित-प्रदेशेषु अपि कॉमनवेल्थ-गेम्स-थीम-आधारिताः द्विचक्रिका: शोभायात्रा: आयोजिताः भविष्यन्ति। भारतीय-क्रीडा-प्राधिकरणस्य (साई) क्षेत्रीय-केन्द्रेषु, नेशनल-सेंटर-ऑफ-एक्सीलेंस-केन्द्रेषु तथा खेलो-इण्डिया-केन्द्रेषु विशेष-कार्यक्रमाः भविष्यन्ति। अनेक-पूर्व-ओलम्पियनः तथा कॉमनवेल्थ-चैम्पियनः अपि सामान्य-जनैः सह अस्मिन् अभियाने सम्मिलिष्यन्ति।

अहमदाबाद-सहितं देशस्य साई-केन्द्रेषु विशेष-प्रदर्शनी अपि आयोजिताः भविष्यन्ति, यस्यां विगतेषु द्वादश-वर्षेषु भारतस्य क्रीडा-उपलब्धयः, खेलो-इण्डिया-मिशनम् तथा क्रीडा-अवसंरचनायाः विकासः प्रदर्शितः भविष्यति।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य प्रयत्नस्य अधीनं १७ दिसम्बरमासे २०२४ तमे वर्षे आरब्धं ‘फिट-इण्डिया-सण्डे-ऑन-द्विचक्रिका’ अभियानं देशस्य बृहत्तमेषु फिटनेस-अभियानेषु एकं जातम् अस्ति। अद्यावधि अस्य ७४ संस्करणेषु ३.०७ लक्षाधिकेषु स्थानेषु कार्यक्रमाः आयोजिताः सन्ति, तथा ७ कोट्यधिकाः जनाः अस्मिन् संयोजिताः सन्ति।

Hindusthan Samachar / Divya Ranjan