तमिलनाडु-राज्ये नूतन-मन्त्रिभ्यः विभागानां आवंटनम् अभवत्
चेन्नईनगरम्, २१ मे-मासः (हि.स.)। तमिलनाडु-राज्ये मुख्यमन्त्रिणः जोसेफ-विजयस्य नेतृत्वे विद्यमानायाः तमिलगा-वेत्री-कझगम् (टीवीके) सर्वकारस्य गुरुवासरे मन्त्रिमण्डल-विस्तारः अभवत्। तमिलनाडु-सरकारस्य मन्त्रिमण्डले नूतनाः २३ मन्त्रिणः सम्मिलिताः। राज्
नए मंत्रियों को विभागों का आवंटन


चेन्नईनगरम्, २१ मे-मासः (हि.स.)। तमिलनाडु-राज्ये मुख्यमन्त्रिणः जोसेफ-विजयस्य नेतृत्वे विद्यमानायाः तमिलगा-वेत्री-कझगम् (टीवीके) सर्वकारस्य गुरुवासरे मन्त्रिमण्डल-विस्तारः अभवत्। तमिलनाडु-सरकारस्य मन्त्रिमण्डले नूतनाः २३ मन्त्रिणः सम्मिलिताः।

राज्यपालः राजेन्द्र-विश्वनाथ-आर्लेकर-महोदयः सर्वेभ्यः पद-गोपनीयतायाः च शपथं प्रदत्तवान्। काङ्ग्रेस-पक्षस्य द्वौ नेतारौ अपि मन्त्रिपदस्य शपथं गृहीतवन्तौ। अस्मिन् मध्ये नूतन-मन्त्रिभ्यः विभागानां आवंटनं कुर्वन् राज्यपालः आधिकारिक-अधिसूचनां निर्गतवान्। मन्त्रिभ्यः प्रदत्ताः विभागाः अधोलिखिताः सन्ति—

मन्त्रिणां तेषां विभागानां च सूची

१. श्रीनाथः — मत्स्य-पालन-मत्स्यमारण-कल्याण-विभागः२. एस.कमाली — पशुपालन-विभागः३. सी.विजयलक्ष्मी — दुग्ध-विकास-विभागः४. आर्. वी. रञ्जितकुमारः — वन-विभागः५. विनोथः — कृषि-कृषक-कल्याण-विभागः६. राजीवः — पर्यावरण-जलवायु-परिवर्तन-विभागः७. पी. राजकुमारः — आवास-नगरीय-विकास-विभागः८. वी. कन्धिराजः — सहकारिता-विभागः९. पी. मथन-राजा — सूक्ष्म-लघु-मध्यम-उद्योग-विभागः१०. के. जगतीश्वरी — समाज-कल्याण-विभागः११. एस्. राजेशकुमारः — पर्यटन-विभागः१२. एम्. विजय-बालाजी — हस्तकरघा-वस्त्र-खादी-विभागः१३. टी.लोकेश-तमिलसेल्वन् — वाणिज्य-कर-पञ्जीकरण-विभागः१४. ए. विजय-तमिलन्-पार्थीबन् — परिवहन-विभागः१५. रमेशः — हिन्दू-धार्मिक-धर्मार्थ-बन्दोबस्ती-विभागः१६. पी. विश्वनाथनः — उच्च-शिक्षा-विभागः१७. आर. कुमारः — कृत्रिम-बुद्धिमत्ता-सूचना-प्रौद्योगिकी-विभागः१८. के. थेन्नारासुः — प्रवासी-तमिल-कल्याण-विभागः१९. वी. सम्पतकुमारः — पिछड़ा-वर्ग-कल्याण-विभागः२०. जे. मोहम्मद-परवाजः — श्रम-कल्याण-कौशल-विकास-विभागः२१. टी. शरथकुमारः — मानव-संसाधन-प्रबन्धन-विभागः२२. एन्. मारिया-विल्सन् — वित्त-योजना-विकास-विभागः२३. के. विग्नेशः — निषेध: एवम् आबकारीविभाग:

Hindusthan Samachar / Divya Ranjan