Enter your Email Address to subscribe to our newsletters

चेन्नई, 21 मईमासः (हि.स.)।
मुख्यमन्त्री जोसेफविजयस्य नेतृत्वे वर्तमानस्य तमिलनाडुसर्वकारस्य मन्त्रिमण्डलस्य विस्तारः अभवत्। गुरुवासरे राजभवने आयोजिते समारोहेषु राज्यपालः २३ नवीनसदस्यान् मन्त्रिपदस्य शपथं दत्तवान्। एतेषु टीवीके-पक्षस्य २१ सदस्याः तथा सहयोगिदलस्य काङ्ग्रेसपक्षस्य द्वौ सदस्यौ समाविष्टौ स्तः। अनेन सह राज्ये मन्त्रिणां कुलसंख्या वर्धित्वा ३२ अभवत्।
अद्य गिण्डीस्थिते राजभवनपरिसरे आयोजिते कार्यक्रमे राज्यपालः राजेन्द्रविश्वनाथअरलेकारः २३ नवीनमन्त्रिभ्यः पदगोपनीयतयोः शपथं दत्तवान्। एतेषु नवीनमन्त्रिषु श्रीनाथः, विजयलक्ष्मी, रञ्जितकुमारः, विजयतमिऴन् पार्थिबन्, कुमारः, विनोदः, राजीवः, राजकुमारः, रमेशः, थेन्नारसुः, कमली, कांतिराजः, मदनराजः, जगदीस्वरी, राजेशकुमारः, विजयबालाजी, लोकेशतमिऴसेल्वन्, विश्वनाथन्, सम्पतकुमारः, शरत्कुमारः, मारियाविल्सन्, विग्नेशः तथा मोहम्मदपरवेजः समाविष्टाः सन्ति।
राज्यपालः सर्वप्रथमं तूतीकोरिन्-विधानसभाक्षेत्रस्य विधायकं तथा मुख्यमन्त्री विजयस्य निकटमित्रं श्रीनाथं मन्त्रिपदस्य शपथं दत्तवान्। ततः परं कमली, विजयलक्ष्मी, विनोदः, राजीवः, रञ्जितकुमारः तथा विजयबालाजी इत्यादयः अन्ये विधायकाः मन्त्रिपदस्य गोपनीयतायाश्च शपथं स्वीकृतवन्तः।
एतेषु राजेशकुमारः तथा विश्वनाथन् काङ्ग्रेसपक्षस्य विधायकौ स्तः। राज्ये ५९ वर्षाणां अनन्तरं काङ्ग्रेसपक्षस्य विधायकेभ्यः तमिलनाडुसर्वकारे मन्त्रिपदं प्राप्तम्। विजयस्य मन्त्रिमण्डले अनुसूचितजातिसम्बद्धानां सदस्याणामपि प्रतिनिधित्वं प्रदत्तम् अस्ति। मन्त्रिमण्डले सप्त महिलाः अपि समाविष्टाः सन्ति। तासु कीर्तना, कमली, जगदीस्वरी तथा विजयलक्ष्मी प्रमुखाः सन्ति।
उल्लेखनीयम् अस्ति यत् राज्यविधानसभानिर्वाचने प्रथमवारं स्पर्धां कृतवती तमिलगा-वेत्रि-कडगम् (टीवीके) १०८ स्थानानि जित्वा बृहत्तमा पार्टी अभवत्। ततः परं टीवीके-पक्षस्य नेता जोसेफविजयः काङ्ग्रेसः, वामदलानि, वीसीके तथा आईयूएमएल इत्यादीनां सहयोगिदलानां समर्थनस्य साहाय्येन सर्वकारं निर्मितवान्। जोसेफसी.विजयः १० मई तिथौ तमिलनाडोः मुख्यमन्त्रिरूपेण शपथं स्वीकृतवान्, तेन सह नव मन्त्रिणः अपि पदभारं स्वीकृतवन्तः।
अधुना विजयस्य मन्त्रिमण्डले सदस्याणां संख्या ३२ अभवत्। टीवीके-पक्षस्य सहयोगिदलयोः आईयूएमएल तथा वीसीके इत्येतयोः सदस्याः अद्यापि मन्त्रिमण्डले समाविष्टाः न सन्ति। उभयोः दलयोः द्वौ-द्वौ विधायकौ स्तः। मन्यते यत् एतयोः सहयोगिदलयोः सदस्याः अग्रिमे विस्तारकाले मन्त्रिमण्डले समावेश्यन्ते।
--------------
Hindusthan Samachar / Dheeraj Maithani