Enter your Email Address to subscribe to our newsletters

वाराणसी, 21 मईमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसी जनपदे गुरुवासरे भीषणग्रीष्मकारणात् प्रातःकालात् एव गंगा नदी मध्ये स्नानकर्तॄणां जनानां महान् समागमः आसीत्। अस्मिन् काले सावधानतारूपेण जलपुलिसस्य तथा एनडीआरएफ इत्यस्य दलानि पूर्णसतर्कतया कार्यरताः दृष्टाः। गङ्गातटे प्रमुखघाटेषु स्नानं कुर्वतां जनानां प्रति एनडीआरएफजवानैः नदीमध्ये तटसमीपे एव स्नानं कर्तुं चेतावनी प्रदत्ता।
अस्मिन् समये अहिल्याबाई घाट इत्यत्र गौदोलियानिवासिनी आशा देवी स्नानसमये पादस्खलनकारणात् गङ्गानद्यां पतिता। एतत् दृष्ट्वा तत्र स्थितेन एनडीआरएफजवानेन तां आकृष्य सुरक्षिततटं प्रापिता। प्राणरक्षणानन्तरं महिलया जवानस्य प्रति कृतज्ञता व्यक्ता। महिलया उक्तं यत् सा अद्य स्वकीयेन सम्बन्धिना सह स्नानार्थं गता आसीत्।
दशाश्वमेध घट्टः, अहिल्याबाई घट्टः, केदार घट्टः, मान मंदिर घट्टः, अस्सी घट्टः, तुलसी घट्टः इत्यादिषु प्रमुखघाटेषु प्रातः षड्वादनात् अपराह्णद्वादशवादनपर्यन्तं स्नानकर्तॄणां भीडायाः कारणात् स्थानीयथानानामारक्षिकर्मिभिः जलपुलिसजवानैश्च पदयात्रया भ्रमणं कृत्वा जनानां सुरक्षितस्नानार्थं पुनःपुनः प्रार्थना क्रियते स्म।
एनडीआरएफ इत्यस्य उपमहानिरीक्षकः मनोज कुमार शर्मा उक्तवान् यत् वर्धमानग्रीष्मकारणात् वाराणस्याः घाटेषु स्नानकर्तॄणां जनानां संख्या वर्धिता अस्ति। अस्य कृते एनडीआरएफजवानान् विषमपरिस्थितीनां सामना कर्तुं सज्जाः भवितुम् उक्तम् अस्ति। स्नानकर्तॄणां सुरक्षा अस्माकं प्रथमा प्राथमिकता अस्ति। प्रतिदिनं घट्टेषु विभिन्नकालान्तरेषु जवानानां नियुक्तिः क्रियते। कस्यापि अवस्थायां कस्यचित् जनस्य निमज्जनात् रक्षणम् अस्माकं मुख्यकर्तव्यं वर्तते। अस्माकं जवानाः जनजागरूकताम् अपि कुर्वन्ति, येन कापि दुर्घटना न भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani