प्रत्येकस्मिन् जनपदे भवेन्निवेशो, जनपदानां कैपिटा इनकम इत्येतद् वर्धयितुमपि ध्यानं केंद्रितं करणीयम् : मुख्यमंत्री योगी
-मुख्यमंत्री योगी गुरुवासरे इन्वेस्टयूपीसंबद्धानां महत्वपूर्ण विषयाणां समीक्षा कृता लखनऊ, 21 मईमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन गुरुवासरे इन्वेस्टयूपी अधिकारिभिः सह गोष्ठीं कृत्वा महत्त्वपूर्णविषयैः सह ग्राउण्डब्रेकिङ्सेरेमनी जी
मुख्यमंत्री योगी


-मुख्यमंत्री योगी गुरुवासरे इन्वेस्टयूपीसंबद्धानां महत्वपूर्ण विषयाणां समीक्षा कृता

लखनऊ, 21 मईमासः (हि.स.)।

मुख्यमन्त्रिणा योगिना आदित्यनाथेन गुरुवासरे इन्वेस्टयूपी अधिकारिभिः सह गोष्ठीं कृत्वा महत्त्वपूर्णविषयैः सह ग्राउण्डब्रेकिङ्सेरेमनी जीबीसी ५.० इत्यस्य विस्तृतसमीक्षा कृता। मुख्यमन्त्रिणा अधिकारिभ्यः उक्तं यत् जीबीसी ५.० अन्तर्गतं प्रत्येकस्मिन् जनपदे निवेशः भवेत्, अस्य विषये विशेषतया ध्यानं दीयताम्। तेन जनपदानां प्रति व्यक्ति आयवृद्धेः विषये बलं दत्तम् तथा उक्तं यत् अस्य कृते मैन्युफैक्चरिङ्पावर इत्यस्य प्रोत्साहनम् आवश्यकम् अस्ति।

गोष्ठ्याम् अधिकारिभिः मुख्यमन्त्रिणे निवेदितं यत् सप्तलक्षकोटिरूप्यकाधिकाः निवेशप्रस्तावाः भूमितले अवतरणाय सज्जाः सन्ति। अस्मिन् अवसरे इन्वेस्टयूपी अधिकारिभिः विगतदिने लीड्स २०२५ रैंकिङ्गे उत्तरप्रदेशाय प्राप्तम् एग्जेम्प्लरअवार्डम् मुख्यमन्त्रिणे योगिनेआदित्यनाथाय समर्पितम्। अधिकारिभिः उक्तं यत् मुख्यमन्त्री योगिनः नेतृत्वेन मार्गदर्शनेन च उत्तरप्रदेशः लॉजिस्टिक्स तथा इन्फ्रास्ट्रक्चरविकासे देशस्य अग्रणी राज्यरूपेण उद्भूतः अस्ति। मुख्यमन्त्रिणा अस्य पुरस्कारस्य कृते इन्वेस्टयूपी अधिकारिणः अभिनन्दिताः।

मुख्यमन्त्रिणः समक्षं जीबीसी समये सम्पूर्णस्य आयोजनस्य विस्तरेण विवरणं प्रस्तुतम्। अस्मिन् स्टेजडिजाइनतः आरभ्य पाथवे एग्जीबिशनलेआउट पर्यन्तं सर्वं प्रस्तुतम्। एग्जीबिशनम् अष्टसु जोनेषु विभक्तम् अस्ति। प्रथमः जोन व्हाईयूपी अस्ति, यस्मिन् उत्तरप्रदेशस्य परिवर्तितपरिदृश्यं विस्तरेण प्रदर्श्यते। जोन ०२ मध्ये इन्फ्रास्ट्रक्चरलट्रान्सफॉर्मेशन, जोन ०३ मध्ये डिफेन्स तथा एयरोस्पेस, जोन ०४ मध्ये ईवी तथा ग्रीनएनर्जी सस्टेनिबिलिटी, जोन ०५ मध्ये इलेक्ट्रॉनिक्समैन्युफैक्चरिङ्ग, जोन ०६ मध्ये टेक्सटाइल्स, जोन ०७ मध्ये टूरिज्म तथा जोन ०८ मध्ये फूडप्रोसेसिङ्सेक्टरस्य अन्तर्गतं उत्तरप्रदेशे जातानां सार्थकपरिवर्तनानां विस्तृतप्रदर्शनं भविष्यति।

मुख्यमन्त्रिणा उक्तं यत् डिफेन्सकॉरिडोरमध्ये भूमेः मागः तीव्रतया वर्धितः अस्ति। अस्य सापेक्षे अस्माभिः भूमेः उपलब्धता सुनिश्चितीकरणे बलं दातव्यम्। एतदतिरिक्तं तासु परियोजनासु, यत्र वर्षेभ्यः पूर्वं भूमिः आवण्टिता आसीत् किन्तु अद्यावधि निवेशः न जातः। तादृशप्रोजेक्ट्सविषये अद्यतनसूचना अपि प्राप्तव्या। मुख्यमन्त्रिणा उक्तं यत् अद्यतनसमये अत्यन्तमहत्त्वपूर्णः विषयः एफडीआई आमन्त्रणम् अस्ति। अस्य कृते व्यापकस्तरे प्रयासाः करणीयाः। तेन सह जनसामान्यसम्बद्धाः विषयाः अस्माकं प्राथमिकतायां भवन्तु।

मुख्यमन्त्रिणा उक्तं यत् एमओयू कुर्वता संस्थानानां सम्पूर्णपडतालः सूचना च अनिवार्यतया क्रियताम्। निवेशकैः सह यथा उत्तमव्यवहारः भविष्यति तथा समये तेषां समस्याः समाधानं प्राप्स्यन्ति, तदा ते प्रदेशस्य कृते ब्राण्डअम्बेसडरवत् कार्यं करिष्यन्ति। मुख्यमन्त्रिणा लैंडबैंकवृद्धेः विषये बलं दत्तम्। इन्वेस्टमेण्ट् उपरि दीयमानान् इन्सेन्टिव्स् इवेंटरूपेण आयोज्य निवेशकानां सम्मानं क्रियताम् तथा तेषां मनोबलं वर्ध्यताम्।

मुख्यमन्त्री योगी उक्तवान् यत् उत्तरप्रदेशः अधुना पारम्परिकऔद्योगिकराज्यस्य छविं त्यक्त्वा रक्षानिर्माणे इलेक्ट्रॉनिक्स ग्रीनएनर्जी डाटासेण्टर लॉजिस्टिक्स तथा हाईटेकमैन्युफैक्चरिङ्ग् क्षेत्रेषु उद्भवमानः राष्ट्रियहबरूपेण विकसितः भवति।

मुख्यमन्त्रिणः समक्षं उत्तरप्रदेशडिफेन्सइण्डस्ट्रियलकॉरिडोर अन्तर्गतस्य आयोज्यमानस्य उत्तरप्रदेशरक्षा तथा एफडीआई कॉन्क्लेव् २०२६ इत्यस्य प्रस्तुतिकरणमपि कृतम्। निवेदितं यत् “उत्तरप्रदेशरक्षा तथा एफडीआई कॉन्क्लेव् २०२६” प्रदेशस्य नवीनऔद्योगिकरणनीतेः विशालमञ्चः भविष्यति, यस्य उद्देश्यम् उत्तरप्रदेशडिफेन्सइण्डस्ट्रियलकॉरिडोरमध्ये रक्षा तथा एयरोस्पेस उद्योगान् आकर्षयितुं वैश्विकनिवेशकान् संयोजयितुं उद्योगसरकाररक्षासंस्थानानां मध्ये समन्वितम् इकोसिस्टम् विकसितुं च अस्ति।

कॉन्क्लेव लखनऊनगरे आयोजयितुं प्रस्तावितम् अस्ति, यस्मिन् रक्षामन्त्रालयम् डीपीएसयू वैश्विकओईएम्स् रक्षाविशेषज्ञाः एमएसएमईस् तथा स्टार्टअप्स् इत्येतेषां एकस्मिन् मञ्चे समागमः भविष्यति। एजेण्डामध्ये उत्तरप्रदेशस्य रक्षाविनिर्माणक्षमता एयरोस्पेसनिवेशः रोजगारप्रोत्साहननीतिः २०२४ ईजऑफडूइङ्बिजनेस तथा डीपीएसयू इत्यस्य भूमिकायाः विषये विस्तृतपैनलचर्चाः प्रस्ताविताः सन्ति। मुख्यमन्त्रिणः तथा रक्षामन्त्रालयस्य वरिष्ठाधिकारिणां सम्बोधनैः सह बीटूजी तथा बीटूबि इण्टरैक्शन्स् अपि आयोजयितुं योजना अस्ति।

कॉन्क्लेवस्य अपेक्षितपरिणामेषु निवेशसमझौते एमओयू कॉरिडोरविस्तारस्य प्रारूपपरीक्षणं तथा सर्टिफिकेशनइन्फ्रास्ट्रक्चरस्य विकासः उद्योगसरकारसाझेदारी तथा निवेशकेभ्यः स्पष्टपॉलिसीसपोर्ट् इत्येते समाविष्टाः सन्ति। सर्वकारस्य उद्देश्यम् केवलं निवेशम् आकर्षयितुं न, अपितु उत्तरप्रदेशे दीर्घकालिकं डिफेन्समैन्युफैक्चरिङ्ग् इकोसिस्टम् निर्मातुम् अस्ति।

प्रस्तुतिकरणे उत्तरप्रदेशस्य रणनीतिकशक्तयः विस्तरेण रेखाङ्किताः। अस्मिन् उत्तमकनेक्टिविटी औद्योगिकभूमेः उपलब्धता कुशलकार्यबलम् सिङ्गलविण्डोक्लीयरन्स् अनुसंधानविकाससहयोगः तथा सुदृढलॉजिस्टिक्सनेटवर्क् इत्येते प्रमुखाधाररूपेण उक्ताः। सहैव डीआरडीओ एचएएल बीईएल बोइङ्ग् एयरबस् टाटा अडाणी इत्यादीनां संस्थानानां संस्थानां च सम्भावितसहभागितायाः उल्लेखं कृत्वा उक्तं यत् उत्तरप्रदेशः अधुना रक्षा तथा एयरोस्पेसनिर्माणस्य कृते शीघ्रं प्रियगन्तव्यरूपेण विकसितः भवति।

गोष्ठ्यां मुख्यमन्त्रिणे इन्वेस्टयूपी इत्यस्य विभिन्नडेस्कानां कार्यप्रणाल्याः विषये अपि अवगतिः प्रदत्ता। निवेदितं यत् इलेक्ट्रॉनिक्सडेस्क उत्तरप्रदेशस्य प्रभाविश्रेष्ठनिवेशक्षेत्रेषु अन्तर्भवति। अस्य डेस्क इत्यस्य अन्तर्गतं ८०५० कोटिरूप्यकाधिकानां निवेशआवेदनानां प्राप्तिः अभवत्। ऑटोमोबाइलडेस्कमध्ये ७२२ कोटिरूप्यकाणां निवेशआवेदनानां प्राप्तेः सूचना दत्ता। जीसीसीडेस्क अन्तर्गतं प्रायः २४८७ कोटिरूप्यकाणि, स्टीलएण्ड्सीमेण्ट्डेस्कमध्ये प्रायः १२२३२ कोटिरूप्यकाणि, टेक्सटाइल्सडेस्कमध्ये प्रायः १३२१ कोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः।

गोष्ठ्यां कंट्रीडेस्क इत्यस्य कार्यप्रणाल्याः समीक्षा अपि कृता। मुख्यमन्त्रिणे निवेदितं यत् जापानदेशतः प्रायः पञ्चाशत्सहस्रकोटिरूप्यकाणां, सिंगापुरदेशतः चत्वारिंशत्सहस्रकोटिरूप्यकाणां, जर्मनी तथा यूके देशाभ्यां पञ्चसहस्रकोटिरूप्यकाणां, ताइवानदेशतः त्रिसहस्रकोटिरूप्यकाणां, यूएई देशतः २०७४ कोटिरूप्यकाणां तथा दक्षिणकोरियादेशतः १६०० कोटिरूप्यकाणां सम्भावितनिवेशप्रस्तावाः प्राप्ताः। निवेदितं यत् सिंगापुर तथा जापान बिजनेस्मिशनट्रिप् अपि अगस्तमासे प्रस्ताविता अस्ति। मुख्यमन्त्रिणा एताः मिशनट्रिप्स् उत्तमरीत्या सम्पन्नीकर्तुं निर्देशाः दत्ताः। सर्वकारस्य उद्देश्यम् एताभिः मिशनट्रिप्स् माध्यमेन उत्तरप्रदेशम् एशियामहादेशस्य विशालविनिर्माण तथा टेक्नोलॉजीनिवेशकेंद्ररूपेण प्रतिष्ठापयितुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani