उत्तरप्रदेशस्य विश्वविद्यालयेषु महाविद्यालयेषु गणवेशः अनिवार्यः
-उच्च शिक्षा मंत्री योगेंद्र उपाध्यायोऽवदत् - गणवेशेन वर्धिष्यते समानता, अनुशासनं सामाजिक समरसता च लखनऊ, 21 मईमासः (हि. स.)।मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारः शिक्षाव्यवस्थायां गुणवत्ता, अनुशासनम् तथा सामाजिकसमरसतां सुदृढ
मुख्यमंत्री योगी


-उच्च शिक्षा मंत्री योगेंद्र उपाध्यायोऽवदत् - गणवेशेन वर्धिष्यते समानता, अनुशासनं सामाजिक समरसता च

लखनऊ, 21 मईमासः (हि. स.)।मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारः शिक्षाव्यवस्थायां गुणवत्ता, अनुशासनम् तथा सामाजिकसमरसतां सुदृढीकर्तुं निरन्तरं महत्त्वपूर्णानि पदानि गृह्णाति। उच्चशिक्षणसंस्थासु गणवेशःकार्यान्वितः भविष्यति।

प्रदेशस्य उच्चशिक्षामन्त्रिणा योगेन्द्रउपाध्यायेन उक्तं यत् राज्यपालस्य आनन्दीबेनपटेलस्य निर्देशानुसारं प्रदेशस्य सर्वेषु विश्वविद्यालयेषु महाविद्यालयेषु च ड्रेसकोडस्य पालनम् अनिवार्यं भविष्यति। तेन उक्तं यत् प्रत्येकस्मिन् शिक्षणसंस्थाने यथासम्भवं समानः ड्रेसकोडः कार्यान्वितः भविष्यति, येन छात्रछात्राणां मध्ये समानतायाः अनुशासनस्य च भावना प्रोत्साहिता भविष्यति।

मन्त्रिणा योगेन्द्रउपाध्यायेन उक्तं यत् छात्रवर्गः एकः समरूपः वर्गः भवति, यत्र कस्यापि प्रकारस्य उच्चनीचता अथवा भेदभावः प्रकटितः न भवेत्। तेन उक्तं यत् अनेकवारं वेशभूषायाः माध्यमेन सामाजिकआर्थिकविषमता दृश्यते, येन केषाञ्चन छात्राणां मध्ये हीनभावना तथा अन्येषां मध्ये श्रेष्ठताभावः विकसितः भवति। गणवेशस्य कार्यान्वयनेन एतासां परिस्थितीनां प्रभावी नियन्त्रणं भविष्यति तथा सर्वे छात्राः समानवातावरणे अध्ययनं कर्तुं शक्नुवन्ति।

तेन उक्तं यत् योगीसर्वकारस्य उद्देश्यं केवलं शैक्षणिकगुणवत्तां वर्धयितुमेव न, अपितु शिक्षणसंस्थासु सकारात्मकम्, अनुशासितम् तथा संस्कारितं वातावरणं निर्मातुमपि अस्ति।गणवेशः केवलम् अनुशासनस्य प्रतीकं न, अपितु सामाजिकसमरसतायाः समानावसरस्य च भावनां सुदृढीकर्तुं माध्यमम् अपि भविष्यति। अनेन छात्रच्छात्राणां ध्यानं शिक्षायां व्यक्तित्वविकासे च अधिकं केन्द्रितं भविष्यति।

मन्त्री उपाध्यायेन उक्तं यत् प्रदेशसरकारः उच्चशिक्षणसंस्थानानि आधुनिकम् अनुशासितं च शैक्षणिकवातावरणं दातुं निरन्तरं सुधारात्मकानि पदानि गृह्णाति। नूतनव्यवस्थायाः कार्यान्वयनानन्तरं विश्वविद्यालयेषु महाविद्यालयेषु च एकरूपतया सह उत्तमा शैक्षणिकसंस्कृतिः विकसिताभविष्यति, या विकसितस्य उत्तरप्रदेशस्य विकसितभारतस्य च लक्ष्याय दृढाधारं प्रदास्यति।

Hindusthan Samachar / Dheeraj Maithani