Enter your Email Address to subscribe to our newsletters

देवरिया, 21 मईमासः (हि.स.)।
आरोग्यभारत्याः तत्त्वावधानेन देवरिया विकास खंड अन्तर्गतस्य ग्राम सिगही इत्यस्मिन् ग्रामे ऊष्माघातात् संरक्षणविषये गुरुवासरे जागरूकताकार्यक्रमः आयोजितः। कार्यक्रमे जनान् ग्रीष्मकालीनस्वास्थ्यसम्बद्धसावधानताः प्रति जागरूकाः कृताः।
आरोग्यभारत्याः प्रान्तीयोपाध्यक्षः डॉ. अजीत नारायण मिश्र उक्तवान् यत् ऊष्माघातः प्राणघातकः सिद्धः भवितुम् अर्हति। अतः अस्मात् संरक्षणं अत्यावश्यकम् अस्ति। तेन जनान् गृहात् बहिः निर्गच्छन्तः पूर्णवस्त्राणि धारयितुं, शिरसि उपवस्त्रं टोपीं वा स्थापयितुं तथा पर्याप्तमात्रायां जलं अन्यतरलपदार्थांश्च पातुं प्रार्थितम्। तेन उक्तं यत् ककडी, खीरा, तरबूज, सन्तराफलम्, शिकंजी, जलजीरा इत्यादयः पेयानि फलानि च ग्रीष्मतापशमनाय सहायकरूपेण कार्यं कुर्वन्ति।
तेन एषा अपि सलाहा दत्ता यत् अत्यधिकोष्णं प्रोटीनयुक्तभोजनं, मद्यपानं, मादकपदार्थसेवनं च परित्याज्यम्। धूपे स्थितासु वाहनस्थानेषु बालकान् न स्थापयितुं तथा गृहाणां वातायनानि उद्घाटितानि स्थापयितुं अपि प्रार्थना कृता, येन वायुसञ्चारः सुचारुरूपेण भवेत्। तेन उक्तं यत् “संरक्षणमेव उपचारः अस्ति” इति, सावधानतां स्वीकृत्य एव ऊष्माघातात् सुरक्षितं भवितुं शक्यते।
Hindusthan Samachar / Dheeraj Maithani