ध्वनिध्यानकार्यशालायाः शुभारंभः, संगीतस्य सुरलहरिभिः गूंजितः परिसरः
मीरजापुरम्, 21 मईमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदे सेठद्वारकाप्रसादबजाजएजुकेशनसेण्टर इत्यत्र पण्डितछन्नूलालमिश्रसंगीतन्यासस्य तत्त्वावधाने आयोजितायाः १० दिवसीयध्वनिध्यानकार्यशालायाः गुरुवासरे भव्यशुभारम्भः अभवत्। २१ मईतः ३१ मई पर्यन्तं स
सेठ द्वारका प्रसाद बजाज एजुकेशन सेंटर में आयोजित कार्यशाला


मीरजापुरम्, 21 मईमासः (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरजनपदे सेठद्वारकाप्रसादबजाजएजुकेशनसेण्टर इत्यत्र पण्डितछन्नूलालमिश्रसंगीतन्यासस्य तत्त्वावधाने आयोजितायाः १० दिवसीयध्वनिध्यानकार्यशालायाः गुरुवासरे भव्यशुभारम्भः अभवत्। २१ मईतः ३१ मई पर्यन्तं सञ्चाल्यमानायां अस्यां कार्यशालायां संगीत, ध्यान तथा संस्काराधारितानां विविधगतिविधीनाम् आयोजनं भविष्यति।

कार्यक्रमस्य मुख्यातिथिः मातृविन्ध्यवासिनीस्वायत्तशासीराज्यचिकित्सामहाविद्यालयस्य प्राचार्यः प्रोफेसर संजीवकुमारसिंहः आसीत्। विशिष्टातिथिरूपेण दिल्लीविश्वविद्यालयस्य संगीत एवं ललितकलासंकायस्य प्रोफेसरः डॉ. सुरेन्द्रनाथसोरेन् उपस्थितः आसीत्। कार्यशालायाः प्रशिक्षिका प्रोफेसर नम्रतामिश्रा सन्ति, या पद्मविभूषणपण्डितछन्नूलालमिश्रस्य सुपुत्री शिष्या च अस्ति। कार्यक्रमस्य शुभारम्भः मातृसरस्वत्याः प्रतिमायां माल्यार्पणेन दीपप्रज्वलनेन च सह अभवत्। विद्यालयस्य प्रधानाचार्या डॉ. शिवानीकौशिक इत्यनया अतिथीनां स्वागतं कृतम्।

कार्यक्रमे गायनवादनयोः मनोहरप्रस्तुतिभिः श्रोतारः मन्त्रमुग्धाः अभवन्। प्रोफेसर नम्रतामिश्रा इत्यनया “सीताराम सीताराम” इति भजनं प्रस्तुत्य सर्वे भावविभोराः कृताः। हार्मोनियमवादने सर्वेशकुमारः तथा तबलावादने पण्डितकौस्तुभपाठकः सङ्गतिं कृतवन्तौ। मुख्यातिथिः प्रोफेसर संजीवकुमारसिंहः अपि भजनं प्रस्तुत्य बहु प्रशंसां प्राप्तवान्। अन्ते प्रधानाचार्या डॉ. शिवानीकौशिक इत्यनया सर्वेषां अतिथीनाम् आयोजकानां च प्रति आभारः व्यक्तीकृतः।

---------------

Hindusthan Samachar / Dheeraj Maithani