Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २१ मे-मासः (हि.स.)। भारत-रत्नस्य पूर्वप्रधानमन्त्रिणः राजीव-गान्धिनः पुण्यतिथौ गुरुवासरे काङ्ग्रेस-कार्यकर्तारः तं श्रद्धापूर्वकं स्मृतवन्तः। पक्षस्य जनपद-महानगर-विभागाभ्यां मैदागिन-स्थिते राजीव-गान्धि-प्रतिमा-स्थले श्रद्धाञ्जलि-सभा आयोजिता, यत्र पूर्वप्रधानमन्त्रिणे भावपूर्णा श्रद्धाञ्जलिः समर्पिता तथा तस्य योगदानं नमनपूर्वकं संस्मृतम्। कार्यकर्तृभिः माल्यार्पणं पुष्पाञ्जलिश्च कृत्वा तस्य योगदानं स्मृतम्। कार्यक्रमस्य अध्यक्षता जनपदाध्यक्षः राजेश्वर-पटेलः अकरोत् तथा संयोजनं महानगराध्यक्षः राघवेन्द्र-चौबे निर्वुढवान्।
महानगर-काङ्ग्रेस-समितेः तत्त्वावधाने नगरेषु सर्वेषु १०० वार्डेषु “राजीव-गान्धी-नमन-पदयात्रा” आयोजिता। पदयात्रायाः शुभारम्भः मध्यमेश्वर-वार्डतः अभवत्, यत्र वरिष्ठ-कार्यकर्त्रे अनिल-पटेलाय राजीव-गान्धिनः छायाचित्रं प्रदाय जनपलाध्यक्षः राजेश्वर-पटेलः तथा दक्षिण-विधानसभा-प्रभारी राजेश-गुप्तः यात्रां प्रेषितवन्तौ। यात्रा विविध-मार्गैः गत्वा पराड़कर-भवनम् प्राप्नोत्, यत्र महान् पत्रकारः स्व. बाबूराव-विष्णु-पराड़करस्य प्रतिमायाः माल्यार्पणेन समापनम् अभवत्। महानगरस्य विभिन्नेषु वार्डेष्वपि वार्ड-अध्यक्षैः, प्रभारीभिः, महानगर-काङ्ग्रेस-समितेः पदाधिकरिभिः तथा पार्षद-प्रत्याशिभिः पदयात्राः आयोजिताः तथा राजीव-गान्धिने श्रद्धाञ्जलिः समर्पिता।
अस्मिन् अवसरे जनपदाध्यक्षः राजेश्वर-पटेलः तथा महानगराध्यक्षः राघवेन्द्र-चौबे संयुक्तरूपेण उक्तवन्तौ यत् राजीव-गान्धी आधुनिक-भारतस्य निर्माणे प्रमुखेषु शिल्पकारेषु अन्यतमः आसीत्। तेन देशाय एकविंशतितम-शताब्द्याः चिन्तनं प्रदत्तम् तथा सूचना-प्रौद्योगिकी, दूरसञ्चारः, सङ्गणक-क्रान्तिः च दृढाधारेण प्रतिष्ठापिताः। तस्य नेतृत्वे यूनां जनानां राजनीति-राष्ट्रनिर्माणयोः सहभागितायै अवसरः प्राप्तः तथा पञ्चायतानां स्थानीय-निकायानां च सशक्तीकरणस्य दिशि महत्त्वपूर्ण: प्रयत्न: कृत:।
नेतारः उक्तवन्तः यत् राजीव-गान्धिना शिक्षा-विज्ञान-प्रौद्योगिकी-रोजगार-क्षेत्रेषु दूरदर्शी-नीतिभिः देशाय नूतना दिशा प्रदत्ता। सः सर्वदा देशस्य एकता, अखण्डता, सामाजिक-सौहार्दस्य च समर्थकः आसीत्। अद्यापि तस्य विचाराः यूनां, कृषकाणां, श्रमिकाणां, निर्धनानां, दुर्बल-वर्गाणां च उत्थानाय प्रेरणास्रोतः सन्ति। राजीव-गान्धिना यूनां जनानां राजनीति-राष्ट्रनिर्माणयोः सहभागिता सुनिश्चिती कृता। पञ्चायतानां स्थानीय-निकायानां च सुदृढीकरणार्थं तस्य प्रयासाः लोकतन्त्रं ग्रामे ग्रामे प्रसारितवन्तः। शिक्षा-विज्ञान-प्रौद्योगिकी-रोजगार-क्षेत्रेषु दूरदर्शी-नीतयः निर्माय तेन भारताय नूतना दिशा प्रदत्ता।
कार्यक्रमे फसाहत-हुसैन-बाबू, गुलशन-अली, डॉ.राजेश-गुप्तः, सतनाम-सिंहः, प्रवीण-प्रकाशः, सैयद-हसनः, सुनील-श्रीवास्तवः, विनोद-सिंहः, वकील-अंसारी, राज-खाँ, राजू-रामः, सन्तोष-मौर्यः, सन्तोष-चौरसिया, असलम-खाँ, अब्दुल-हमीदः, प्रमोद-वर्मा, मनोज-वर्मा, आकाश-त्रिपाठी इत्यादयः बहुसंख्यकाः काङ्ग्रेस-कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan