योगी सर्वकारो दास्यति आयुष छात्रेभ्यः स्मार्ट इत्यस्याः कक्षायाः सौभाग्यं, स्मार्ट भविष्यति आयुर्वेदहोम्योपैथीत्येतयोः पठनम्
-मुख्यमंत्रिणो योगिनो निर्णयेण प्रदेशस्य आयुषमहाविद्यालयेषु आधुनिकाभ्यः स्मार्टकक्षाभ्यःवर्धिष्यते शिक्षण गुणवत्ता लखनऊ, 21 मईमासः (हि. स.)। योगीसर्वकारः आयुषचिकित्साशिक्षां आधुनिकप्रौद्योगिक्या सह संयोजयितुं निरन्तरं महत्त्वपूर्णानि पदानि गृह्ण
मुख्यमंत्री योगी


-मुख्यमंत्रिणो योगिनो निर्णयेण प्रदेशस्य आयुषमहाविद्यालयेषु आधुनिकाभ्यः स्मार्टकक्षाभ्यःवर्धिष्यते शिक्षण गुणवत्ता

लखनऊ, 21 मईमासः (हि. स.)।

योगीसर्वकारः आयुषचिकित्साशिक्षां आधुनिकप्रौद्योगिक्या सह संयोजयितुं निरन्तरं महत्त्वपूर्णानि पदानि गृह्णाति। अस्यैव क्रमस्य अन्तर्गतं योगी सरकारेण आयुषमहाविद्यालयानां विद्यार्थिभ्यः स्मार्टकक्षायामुपहारं दातुं निर्णयः कृतः अस्ति।

अस्य अन्तर्गतस्य प्रदेशस्य १७ आयुर्वेद तथा होम्योपैथी चिकित्सामहाविद्यालयेषु ५१ स्मार्टकक्षाः विकसिताः भविष्यन्ति। एतेषु स्मार्टकक्षासु अत्याधुनिकडिजिटलप्रौद्योगिकी तथा लर्निङ्गमैनेजमेण्टसिस्टम (एलएमएस) इत्यस्य उपयोगः क्रियते, येन विद्यार्थिनः आधुनिकं संवादात्मकं च शिक्षानुभवं प्राप्तुं शक्नुवन्ति।

आयुषमहानिदेशिका एवं मिशननिदेशिका चैत्रा वी. इत्यनया उक्तं यत् मुख्यमन्त्री योगी आदित्यनाथः आयुषचिकित्साशिक्षां कालस्य आवश्यकतानुसारं प्रौद्योगिकीदृष्ट्या सशक्तीकर्तुं निरन्तरं कार्यं कुर्वन्ति, येन विद्यार्थिनः पारम्परिकचिकित्सापद्धतीनां सह आधुनिकडिजिटलसंसाधनानामपि लाभं प्राप्नुयुः। मुख्यमन्त्रिणः योगिनः मतम् अस्ति यत् आयुर्वेद तथा होम्योपैथी इत्यादीनां भारतीयचिकित्सापद्धतीनां वैश्विकस्तरे प्रतिष्ठापनार्थं शिक्षाव्यवस्थायाः आधुनिकीकरणं अत्यन्तम् आवश्यकम् अस्ति। अतः मुख्यमन्त्रिणः योगिनः अभिप्रायानुसारम् आयुषमहाविद्यालयेषु स्मार्टक्लासरूम सञ्चालिताः भविष्यन्ति। एतेषु इण्टरएक्टिवफ्लैटपैनल् (आईएफपी), ऑडियोवीडियोसिस्टम् तथा डिजिटललर्निङ्गटूल्स इत्येषाम् उपयोगः भविष्यति। अनेन विद्यार्थिभ्यः डिजिटलसहयोगाधारितशिक्षा प्रदास्यते। सहैव रियलटाइमइण्टरएक्शन, मल्टीमीडियाकण्टेण्ट तथा ऑनलाइनअध्ययनस्य सुविधा अपि उपलब्धा भविष्यति।

आयुषमहानिदेशिकया उक्तं यत् स्मार्टक्लासरूम १७ आयुषमहाविद्यालयेषु स्थापिताः भविष्यन्ति। तेषु राज्यहोम्योपैथिकचिकित्सामहाविद्यालयाः प्रयागराज, कानपुर, लखनऊ, अयोध्या, गाजीपुर, मुरादाबाद, आजमगढ़, गोरखपुर तथा अलीगढ़ इत्येते समाविष्टाः सन्ति। तदतिरिक्तम् आयुर्वेदिकसंस्थासु लखनऊ, पीलीभीत, बरेली, मुजफ्फरनगर, बांदा, झांसी, प्रयागराज तथा वाराणसी इत्येषां महाविद्यालयानां कृते स्मार्टक्लासरूम स्थापिताः भविष्यन्ति। एतेषु सर्वेषु संस्थानेषु समग्ररूपेण ५१ स्मार्टक्लासरूम विकसिताः भविष्यन्ति। अस्य कृते कार्यदायीसंस्थारूपेण यूपी इलेक्ट्रॉनिक्स कॉर्पोरेशन नाम निर्दिष्टम् अस्ति। एतेषां स्मार्टक्लासानां माध्यमेन आयुषविद्यार्थिनः एकविंशतितमशताब्द्याः आवश्यकडिजिटलस्किल्स् इत्याभिः सुसज्जिताः भविष्यन्ति। अनेन विद्यार्थिषु नवाचारः, अनुसन्धानक्षमता तथा व्यावसायिकदक्षता च विकसिताः भविष्यन्ति। स्मार्टक्लासरूम केवलं पठनपाठनपर्यन्तं सीमिताः न भविष्यन्ति, अपितु आयुषशिक्षां अनुसन्धान तथा इन्नोवेशन इत्याभ्यां सह संयोजयितुं माध्यमरूपेण अपि कार्यं करिष्यन्ति।

लर्निङ्गमैनेजमेण्टसिस्टम् (एलएमएस) इत्यस्य साहाय्येन सर्वेषां आयुषसंस्थानानां कृते एकीकृतं डिजिटलप्लेटफॉर्म निर्मास्यते। अनेन शिक्षकाणां विद्यार्थिनां च मध्ये उत्तमः समन्वयः स्थापितः भविष्यति। एलएमएस इत्यस्य माध्यमेन अध्ययनसामग्री, असाइनमेण्ट्, ऑनलाइनव्याख्यानानि तथा प्रगतिप्रतिवेदनानि एकस्मिन्नेव मञ्चे उपलब्धानि भविष्यन्ति। तदतिरिक्तम् एलएमएस इत्यस्य माध्यमेन डिजिटलकण्टेण्टरिपॉजिटरी अपि निर्मास्यते, येन विद्यार्थिनः कुत्रापि कदापि च अध्ययनसामग्रीं प्राप्तुं शक्नुवन्ति। अनेन शिक्षणसंसाधनानां उत्तमः उपयोगः भविष्यति तथा विभिन्नसंस्थानानां मध्ये ज्ञानसाझाकरणस्य प्रक्रिया अपि सुदृढा भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani