Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 मईमासः (हि.स.)।
केन्द्रीयसामाजिकन्यायअधिकारितामन्त्री डॉ. वीरेंद्र कुमार शुक्रवासरे विशेषरूपेण “जीवनऐप्” तथा “केयरगिवरडैशबोर्ड” इत्येतयोः शुभारम्भं करिष्यति। मन्त्रालयस्य अनुसारं अस्य कार्यक्रमस्य विषयः “सुचारुरूपेण कार्यशीलायाः देखभालअर्थव्यवस्थायाः सृजनम्” इति भविष्यति। अस्य मुख्याकर्षणं वरिष्ठनागरिकाणां कल्याणार्थं डिजिटलपहलानां प्रारम्भः अस्ति। अस्मिन् अवसरे सः देशस्य वृद्धजनानां कृते देखभालव्यवस्थां अधिकसुदृढां सुलभां च कर्तुं मन्त्रालयस्य आगामीप्रयत्नानां रूपरेखां च सहकरिष्यति।
अस्मिन् अवसरे सामाजिकन्यायअधिकारिताराज्यमन्त्री बीएल वर्मा तथा रामदास अठावले, सामाजिकन्यायअधिकारिताविभागस्य सचिवः सुधांश पंत, संयुक्तसचिवः (वरिष्ठनागरिकाः) तथा अन्ये जनाः अपि उपस्थिताः भविष्यन्ति।
मन्त्रालयेन अस्मिन् आभासीयआयोजने गहनमन्थनार्थं चत्वारि प्रमुखविषयक्षेत्राणि चिन्हितानि। अस्य कृते विशेषाः आभासीयचर्चाकक्षाः निर्मिताः, यत्र मॉडरेटराः, पैनलिस्टाः, वक्तारश्च अनेकविषयेषु विचारविमर्शं करिष्यन्ति। एतेषु प्रमुखनीतिगतविषयाः चुनौतयः च, कार्यान्वयने वर्तमानाः न्यूनताः, नवीनाः उद्भवमानाः पहलाः, सर्वोत्तमप्रथाः, समयबद्धकार्ययोजना च अन्तर्भवन्ति।
मन्त्रालयस्य अनुसारं अस्य पहलायाः उद्देश्यं भारतस्य वर्धमानवृद्धजनसंख्यायाः आवश्यकतानां पूर्त्यर्थं प्रौद्योगिक्याः सामुदायिकसहभागितायाश्च लाभं स्वीकृत्य देखभालसेवानां कृते व्यापकं रूपरेखानिर्माणम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani