काशीहिंदूविश्वविद्यालये विद्यावारिधिप्रवेशप्रक्रियायां महान्ति परिवर्तितानि, वर्षे द्विबारं भविष्यति परीक्षा
—प्रवेश परीक्षां अधिकां सुगमां पारदर्शिनीन्निर्मातुं विद्वत परिषदा पारितः प्रस्तावः वाराणसी, 21 मईमासः (हि.स.)।काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) विद्वत्परिषदया पीएचडी-प्रवेशप्रक्रियाम् अधिकपारदर्शिनीं, सरलां तथा विद्यार्थीहितैषिणीं कर्तुं बहूनां
फोटो प्रतीक


—प्रवेश परीक्षां अधिकां सुगमां पारदर्शिनीन्निर्मातुं विद्वत परिषदा पारितः प्रस्तावः

वाराणसी, 21 मईमासः (हि.स.)।काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) विद्वत्परिषदया पीएचडी-प्रवेशप्रक्रियाम् अधिकपारदर्शिनीं, सरलां तथा विद्यार्थीहितैषिणीं कर्तुं बहूनां महत्त्वपूर्णप्रस्तावानां अनुमोदनं कृतम्। परिषदः सभा कुलपतिना प्रो. अजितकुमारचतुर्वेदिना अध्यक्षतायां सम्पन्ना। नवीनप्रस्तावानुसारम् अधुना विश्वविद्यालयस्य विभागेभ्यः एतदधिकारः प्रदास्यते यत् ते आवश्यकतानुसारं पीएचडी-प्रवेशे साक्षात्कारात् पूर्वं स्क्रीनिङ्ग्-परीक्षां आयोजितुं शक्नुवन्ति। अद्यावधि सर्वे पात्राः अभ्यर्थिनः प्रत्यक्षरूपेण साक्षात्काराय आहूयन्ते स्म, किन्तु नवीनव्यवस्थायां स्क्रीनिङ्ग्-परीक्षायाः आधारेण चयनिताः अभ्यर्थिनः एव साक्षात्काराय आमन्त्रिताः भविष्यन्ति। स्क्रीनिङ्ग्-परीक्षायाः रूपरेखा तथा प्रक्रिया निर्धारयितुं विश्वविद्यालयस्तरे समितिः गठिता भविष्यति, यस्यै विद्वत्परिषदः स्वीकृतिः प्राप्ता अस्ति।

एतदतिरिक्तं, पीएचडी-प्रवेशे मुख्यविषयस्य सम्बद्धविषयस्य च पृथक्प्रक्रियायाः जटिलतां समाप्तुं अधुना एकीकृता मेरिट्-सूची निर्मास्यते। अस्याः सूच्याः आधारेण अभ्यर्थिनः सम्बन्धितविभागेषु प्रवेशं प्राप्स्यन्ति। विश्वविद्यालयप्रशासनस्य मतम् अस्ति यत् अनेन प्रवेशप्रक्रिया अधिकनिष्पक्षा पारदर्शिनी च भविष्यति तथा विद्यार्थिनां विश्वासः अपि दृढः भविष्यति। गुरुवासरे एषा सूचना विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन प्रदत्ता।

विश्वविद्यालयस्य प्रवक्ता उक्तवान् यत् आरक्षणव्यवस्थासम्बन्धे अपि परिषदया महत्त्वपूर्णनिर्णयः कृतः। अधुना आरक्षितस्थानानां गणना विभागस्य कुलस्थानानां आधारेण करिष्यते, यस्मिन् मुख्यपरिसरः, महिलामहाविद्यालयः, दक्षिणीपरिसरः तथा सम्बद्धमहाविद्यालयाः समाविष्टाः भविष्यन्ति। सर्वासां श्रेणीनां स्थानानां सूचना प्रवेशप्रक्रियायाः आरम्भात् पूर्वमेव सार्वजनिकरूपेण प्रकाशितं भविष्यति, येन अभ्यर्थिभ्यः स्पष्टता प्राप्तुं शक्यते।

विद्वत्परिषदया पीएचडी-प्रवेशप्रक्रियायाः वर्षे द्विवारम् आयोजनस्य प्रस्तावः अपि अनुमोदितः। विश्वविद्यालयस्य कथनम् अस्ति यत् अनेन प्रवेशप्रक्रिया अधिकसमयबद्धा भविष्यति तथा देशस्य सर्वेभ्यः प्रतिभाशालिभ्यः विद्यार्थिभ्यः उत्तमावसराः प्राप्स्यन्ते।

कुलपतिः प्रो. अजितकुमारचतुर्वेदी उक्तवान् यत् विश्वविद्यालयस्य प्राथमिकता पीएचडी-प्रवेशप्रक्रियाम् अधिकउत्तरदायिनीं, पारदर्शिनीं तथा व्यावसायिकरूपेण सुदृढां कर्तुम् अस्ति। तस्य मतानुसारं नवीननिर्णयैः न केवलं मेधाविनां विद्यार्थिनां बीएचयू-प्रति आकर्षणं वर्धिष्यते, अपितु प्रवेशप्रक्रिया अपि अल्पसमये प्रभावीरूपेण सम्पन्ना कर्तुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani