Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 मईमासः (हि.स.)।देशस्य पूर्वप्रधानमन्त्री राजीव गांधी इत्यस्य पुण्यतिथौ गुरुवासरे उपराष्ट्रपतिः सीपी राधाकृष्णन तथा केन्द्रीयमन्त्रिणः तस्मै श्रद्धाञ्जलिम् अर्पयित्वा तस्य योगदानं बलिदानं च स्मृतवन्तः।
उपराष्ट्रपतिः सीपी राधाकृष्णन स्वनिवासस्थाने पूर्वप्रधानमन्त्रिणे श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् सार्वजनिकजीवने राजीवगान्धिनः योगदानं राष्ट्रसेवायां तस्य बलिदानं च सम्मानकृतज्ञताभ्यां सह स्मर्यते।
लोकसभाध्यक्षः ओम बिरला राजीवगान्धिनः पुण्यतिथौ तस्मै भावपूर्णं नमनं कृत्वा देशस्य प्रति तस्य योगदानं स्मृतवान्।
केन्द्रीयकृषिमन्त्री शिवराज सिंह चौहान पूर्वप्रधानमन्त्रिणे स्वर्गीयराजीवगान्धये विनम्रश्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् राष्ट्रनिर्माणे तस्य योगदानं सर्वदा स्मरिष्यते।
आमआदमीपार्टी इत्यस्य राष्ट्रियसंयोजकः अरविंद केजरीवाल अपि राजीवगान्धिनः पुण्यतिथौ तस्मै विनम्रश्रद्धाञ्जलिं दत्त्वा देशस्य कृते तस्य योगदानं स्मृतवान्।
उल्लेखनीयं यत् राजीवगान्धिनः २१ मई १९९१ तमे वर्षे तमिलनाडुराज्यस्य श्रीपेरम्बदूरनाम्नि स्थाने आत्मघातिविस्फोटे निधनम् अभवत्। सः १९८४ तः १९८९ पर्यन्तं भारतस्य प्रधानमन्त्री आसीत्। भारते सूचनाप्रौद्योगिकीदूरसञ्चारक्रान्त्योः आधारशिलास्थापकनेतृषु तस्य गणना क्रियते। तस्य कार्यकाले सङ्गणकीकरणम्, दूरसञ्चारविस्तारः, प्रशासनिकाधुनिकीकरणस्य दिशि च अनेकानि महत्त्वपूर्णानि पदानि गृहीतानि।
---------------
Hindusthan Samachar / Dheeraj Maithani