Enter your Email Address to subscribe to our newsletters

नई दिल्ली, 21 मई (हि.स.)।केन्द्रीय स्वास्थ्य एवं परिवारकल्याणमन्त्री जगत् प्रकाश नड्डा विश्वस्वास्थ्यसभायाः ७९तमसत्रस्य अवसरॆ आयोजिते कार्यक्रमे उक्तवान् यत् समये परीक्षणम्, शीघ्रनिदानम्, उपचारस्य समप्रवेशश्च एव सुदृढस्य जनकेन्द्रितस्य स्वास्थ्यतन्त्रस्य आधारः अस्ति। तेन उक्तं यत् फुफ्फुसपरीक्षणं केवलं प्रौद्योगिक्याः उपकरणानां वा विषयः नास्ति, अपितु जीवनरक्षणेन, पीडान्यूनतया, स्वास्थ्यतन्त्रस्य सुदृढीकरणेन च सम्बद्धम् अस्ति।
केन्द्रीयस्वास्थ्यमन्त्री जेपी नड्डा अत्र विश्वस्वास्थ्यसभायाः ७९तमसत्रस्य समये आयोजिते ‘मन्त्रीयदृष्टिकोणः : फुफ्फुसस्वास्थ्यपरीक्षणम्’ इति कार्यक्रमे सहभागी अभवत्। अयं कार्यक्रमः स्टॉप टीबी पार्टनरशिप इत्यस्याः संस्थायाः पक्षतः आयोजितः आसीत्, अस्मिन् भारतम्, जापानदेशः, फिलीपीन्सदेशः, जाम्बियादेशश्च सहआयोजकाः आसन्।
नड्डा उक्तवान् यत् भारतेन राष्ट्रियक्षयरोगउन्मूलनकार्यक्रमस्य तथा टीबीमुक्तभारतदृष्टेः अन्तर्गतं विश्वस्य बृहत्तमं परीक्षणं शीघ्रपहचानाभियानं च संचालितम्। गृहगृहं गत्वा परीक्षणम्, चलत्परीक्षणदलानि, सामुदायिकाभियानानि, उच्चजोखिमक्षेत्रेषु विशेषाभियानानि च संचाल्यन्ते। जेपी नड्डा उक्तवान् यत् भारतेन आधुनिकपरीक्षणप्रौद्योगिकीनां व्यापकविस्तारः कृतः। अस्मिन् मॉलिक्यूलरपरीक्षणमञ्चाः, डिजिटलचेस्टएक्सरेसेवाः, कृत्रिमबुद्धिमत्ताआधारितव्याख्याउपकरणानि, हस्तधार्यपरीक्षणयन्त्राणि, विकेन्द्रीकृतपरीक्षणव्यवस्था च अन्तर्भवन्ति। एतेषां उद्देश्यं विशेषतः दूरस्थवञ्चितक्षेत्रेषु निदानविलम्बस्य न्यूनीकरणम् अस्ति।
तेन उक्तं यत् केवलं निदानं पर्याप्तं नास्ति, अपितु पोषणसहायता, उपचारपालनम्, सामाजिकसुरक्षा, सामुदायिकसहयोगश्च अपि आवश्यकः अस्ति। टीबीमुक्तभारतअभियानस्य माध्यमेन नागरिकाः, संस्थाः, कॉरपोरेटजगत्, समुदायाश्च टीबीरोगिणां तेषां परिवाराणां च सहाय्यार्थं संयोजिताः सन्ति। तेन उक्तं यत् टीबीमुक्तभारतऐप् मध्ये ‘खुशी’ नाम कृत्रिमबुद्धिमत्ताआधारितः बहुभाषीयः संवादसहायकः अन्तर्भवति, यः लक्षणानां, अधिकाराणां, समीपस्थपरीक्षणकेन्द्राणां च सूचना वास्तविकसमये प्रददाति।
केन्द्रीयमन्त्री वैश्विकसहकार्यस्य आह्वानं कुर्वन् उक्तवान् यत् कश्चन देशः एकाकी एव फुफ्फुसपरीक्षणस्य टीबीउन्मूलनस्य च आव्हानानां सामना कर्तुं न शक्नोति। तेन अन्ताराष्ट्रियप्राथमिकतासु फुफ्फुसपरीक्षणस्य सार्वभौमिकस्वास्थ्यआवरणरूपरेखायां समावेशनम्, सुलभपरीक्षणप्रौद्योगिकीनां प्रवेशवृद्धिः, प्राथमिकस्वास्थ्यतन्त्रस्य सुदृढीकरणम्, नवाचारस्य स्वदेशीनिर्माणस्य च प्रोत्साहनम्, सततवित्तीयव्यवस्थायाः सुनिश्चितीकरणम् इत्येषु अपि बलं दत्तम्।
---------------
Hindusthan Samachar / Dheeraj Maithani