Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, २१ मे-मासः (हि.स.)। अन्ताराष्ट्रिय-योग-दिवस-२०२६ उपलक्ष्ये हरिद्वार-जनपदे आयुष-विभागेन विशेषं डिजिटल-योग-जनजागरण-अभियानं सञ्चालयिष्यते। एतदभियानम् आयुष-तथा-आयुष-शिक्षा-मन्त्री मदन-कौशिकस्य निर्देशनस्य अन्तर्गतं सञ्चालितं भविष्यति, यस्य उद्देश्यं योगं जनं जनं प्रति प्राप्य स्वस्थ-जीवनशैली विषये जनान् जागरूकान् कर्तुम् अस्ति।जनपद-आयुर्वेदिक-यूनानी-अधिकारी डॉ.स्वास्तिक-सुरेशः अवदत् यत् योग-दिवसः केवलम् औपचारिक-आयोजनं नास्ति, अपितु स्वस्थ-समाज-निर्माणस्य दिशि व्यापकं जनान्दोलनम् अस्ति।
अभियानस्य सफल-सञ्चालनार्थं डॉ.भास्कर-आनन्दः नोडल-अधिकारीरूपेण नियुक्तः अस्ति, यदा डॉ.विकास-दुबे तथा डॉ.अश्वनी-कौशिकः सह-नोडल-अधिकारीरूपेण दायित्वं प्राप्तवन्तौ। एतेन सह आयुष-मिशन-विशेषज्ञः आयुर्वेद-विशेषज्ञश्च डॉ.अवनीश-कुमार-उपाध्यायः जनपदे गतिविधीनां समन्वयस्य प्रचार-प्रसारस्य च दायित्वं प्राप्तवान्।
आयुष-विभागेन सर्वेषु आयुष-चिकित्सालयेषु, आयुष्मान्-आरोग्य-मन्दिरेषु, स्वास्थ्य-विभागेषु च नियुक्तेभ्यः कर्मचारिभ्यः “नमस्ते-योग-ऐप” तथा “योग-ब्रेक-ऐप्” इत्येतयोः डाउनलोड इति कृत्वा सामान्य-जनानपि योगेन सह सम्बद्धान् कर्तुं निर्देशाः प्रदत्ताः।
डॉ.अवनीश-कुमार-उपाध्यायः अवदत् यत् आधुनिक-जीवनशैल्यां वर्धमान-तनावस्य, मानसिक-चिन्ताया:, असन्तुलनस्य च मध्ये योगः शारीरिक-मानसिक-आध्यात्मिक-स्वास्थ्यस्य प्रभावी माध्यमरूपेण उद्भूतः अस्ति। नियमित-योगाभ्यासः शरीरस्य रोग-प्रतिरोधक-क्षमतां वर्धयति तथा व्यक्तिं सकारात्मक-ऊर्जया अपि परिपूरयति।
आयुष-विभागेन आगामिषु दिनेषु विभिन्नेषु विद्यालयेषु, संस्थासु, सार्वजनिक-स्थलेषु च सामूहिक-योगाभ्यासः, योग-जागरूकता-कार्यक्रमाः, विशेष-जनसम्पर्क-अभियानानि च सञ्चालयिष्यन्ते। विभागेन सर्वेभ्यः नागरिकेभ्यः अन्ताराष्ट्रिय-योग-दिवस-२०२६ कार्यक्रमेषु सक्रिय-सहभागितायै आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan