हिसार : शिक्षया सह सामाजिक दायित्वमपि पूर्णीकरोति गुरु जम्भेश्वर विश्वविद्यालयः- प्रो. नरसी राम बिश्नोई
गुरु जम्भेश्वर विश्वविद्यालयोऽददात् 78सहस्रोत्तर त्रिलक्षाधिकरूप्यकाणां सहायता हिसारः, 21 मईमासः (हि.स.)। गुरुजम्भेश्वरविज्ञान एवं प्रौद्योगिकीविश्वविद्यालयस्य कुलपतिः प्रो. नरसीरामबिश्नोई इत्यनेन उक्तं यत् शिक्षणसंस्थानानां उद्देश्यं विद्यार्
कुलपति प्रो. नरसी राम बिश्नोई।


गुरु जम्भेश्वर विश्वविद्यालयोऽददात् 78सहस्रोत्तर त्रिलक्षाधिकरूप्यकाणां सहायता

हिसारः, 21 मईमासः (हि.स.)।

गुरुजम्भेश्वरविज्ञान

एवं प्रौद्योगिकीविश्वविद्यालयस्य कुलपतिः प्रो. नरसीरामबिश्नोई इत्यनेन उक्तं यत् शिक्षणसंस्थानानां उद्देश्यं विद्यार्थिभ्यः केवलं पुस्तकीयशिक्षां दातुमेव न, अपितु स्वस्य सामाजिकदायित्वस्य पूरणमपि अस्ति। गुरुजम्भेश्वरविश्वविद्यालयः सदा स्वस्य सामाजिकदायित्वं पूरयति तथा

एतत् सुनिश्चितं करोति यत् प्रत्येकस्मै विद्यार्थिने शिक्षाग्रहणस्य समानावसराः प्राप्येरन् तथा

तस्य आर्थिकस्थितिः शिक्षाग्रहणे बाधा न भवेत्। कुलपतिः प्रो. नरसीरामबिश्नोई

इत्यनेन गुरुवासरे विश्वविद्यालयस्य ५० आवश्यकतायुक्तविद्यार्थिभ्यः ३ लक्ष ७८ सहस्ररूप्यकाणां सहायतराशिः प्रदत्ता। अस्मिन् अवसरे विश्वविद्यालयस्य छात्रकल्याणाधिष्ठाता प्रो. मुकेशकुमारशर्मा उपस्थितः आसीत्।

कुलपतिः प्रो. नरसीरामबिश्नोई इत्यनेन अस्मिन् अवसरे

उक्तं यत् गुरुजम्भेश्वरजीमहाराजस्य नाम्ना स्थापितः अयं विश्वविद्यालयः प्राकृतिकसंरक्षणस्य

सह सामाजिकन्यायस्य सिद्धान्तेन अपि सञ्चालितः अस्ति। विश्वविद्यालयस्य प्रयासः अस्ति यत् कश्चन विद्यार्थी

शुल्कं दातुम् असमर्थः सन् स्वपठनात् वञ्चितः न भवेत्। तेन विद्यार्थिभ्यः उक्तं यत्

ते स्वान् अध्ययनं प्रति केन्द्रिताः भवन्तु तथा राष्ट्रस्य समाजस्य च विकासोन्नत्यर्थं

स्वीयं योगदानं ददतु।

छात्रकल्याणाधिष्ठाता प्रो. मुकेशकुमारशर्मा

इत्यनेन उक्तं यत् छात्रकल्याणविभागेन येभ्यः आवश्यकतायुक्तविद्यार्थिभ्यः एषा सहायता प्रदत्ता

तेषु छात्राः छात्र्यश्च एतादृशेभ्यः निर्धनआर्थिकदुर्बलकुटुम्बेभ्यः सम्बन्धिताः

सन्ति येषां समीपे आयस्य साधनं नास्ति। केषाञ्चन विद्यार्थिनां तु मातापितरौ अपि न स्तः, ये अत्यन्तं

निर्धनकुटुम्बेभ्यः सम्बन्धिताः सन्ति तथा स्वीयं शुल्कं दातुं असमर्थाः सन्ति। तेन उक्तं यत् एषा सहायतराशिः छात्रकल्याणविभागेन प्रतिवर्षं प्रदीयते।

Hindusthan Samachar / Dheeraj Maithani