Enter your Email Address to subscribe to our newsletters

हरिद्वारनगरम्, २१ मे-मासः (हि.स.)। अधुना गङ्गायाः पवित्र-प्रवाहेन सह ज्ञानस्य, भक्तेः, धर्मस्य च अविरामः प्रवाहः अपि धर्मनगरी-हरिद्वारे प्रवहति। पुरुषोत्तम-मासस्य शुभ-अवसरे मालवीय-घाटे आयोजितायां श्रीमद्भागवत-कथायां भक्तानां विशालः जनसमूहः समुपस्थितः अभवत्। कथायाः चतुर्थ-दिने भगवतः श्रीकृष्णस्य प्राकट्योत्सवस्य मार्मिक-वर्णनेन भक्ताः भाव-विभोराः अभवन्।
स्वामी-रामदेवः कथास्थलं प्राप्य वेदिकायाः पूजनं कृत्वा कथाप्रसङ्गं सनातन-संस्कृतेः सुदृढीकरणार्थं महत्त्वपूर्णम् उपक्रमम् इति वर्णितवान्। सः अवदत् यत् भारतस्य आत्मा तस्य प्राचीन-परम्परायां, संस्कृतौ, आध्यात्मिक-मूल्येषु च निवसति। देशस्य बृहत्तमा आवश्यकता अस्ति यत् आधुनिक-विकासेन सह स्वस्य सांस्कृतिक-मूलानां संरक्षणं करणीयम्।
स्वामी-रामदेवः अवदत् यत् भारतीय-सांस्कृतिक-परम्पराः अस्माकं डी.एन.ए. मध्ये अन्तर्निविष्टाः सन्ति। देवत्वं, रामत्वं, राधात्वं, शिवत्वं च अस्माकं अन्तः विद्यमानम् अस्ति। अस्माकं आचरणे, भोजने, व्यवहारे च सनातन-संस्कृतेः प्रतिबिम्बः दृश्यते। सः अवदत् यत् अद्यत्वे यूनां वंशानां आधुनिकतया सह स्वस्य सांस्कृतिक-स्वत्वस्य दृढतया अनुसरणस्य आवश्यकता वर्तते।
कथा-व्यासः पुण्डरीक-गोस्वामी श्रीमद्भागवत-कथायाः रसास्वादनं कारयन् भगवानः श्रीकृष्णस्य जन्मोत्सवस्य अतीव मार्मिकं वर्णनं कृतवान्। सः अवोचत् यत् यदा पृथिव्यां अत्याचारः, अराजकता च वर्धिता आसीत्, तदा भगवान् विष्णुः श्रीकृष्ण-रूपेण अवतीर्य धर्म-स्थापनाय प्रतिज्ञां कृतवान्।
कथायां श्रीकृष्णस्य जन्म-प्रसङ्गे सम्पूर्णः मण्डपः “नन्द-के-आनन्द-भयो, जय-कन्हैयालाल-की” इति घोषैः प्रतिध्वनितः अभवत्। भजनानां मध्ये भक्ताः नृत्यन्तः दृश्यन्ते स्म। कथावाचकः अवदत् यत् भगवान् श्रीकृष्णः न केवलं दुष्टानां विनाशार्थम्, अपितु मानवतायै प्रेम्णः, करुणायाः, धर्मस्य च सन्देशं दातुम् अवतीर्णः।
श्रीगङ्गा-सभायाः महासचिवः तन्मय-वशिष्ठः योगगुरोः स्वामी-रामदेवस्य स्वागतं कृत्वा अवदत् यत् गङ्गा-मातुः आशीर्वादः प्रत्येकं जीवने सुखं, समृद्धिं, आध्यात्मिक-शक्तिं च आनयति। सः कथाप्रसङ्गस्य आतिथेयान् अमृतसर-नगरस्य अग्रवाल-परिवारेण सह सर्वेभ्यः भक्तेभ्यः शुभकामनाः प्रेषितवान्।
अस्मिन् अवसरे श्रीगङ्गा-सभाध्यक्षः नितिन-गौतमः, उपाध्यक्षः हनुमन्त-झा, स्वागतमन्त्री सिद्धार्थ-चक्रपाणिः, समाज-कल्याण-मन्त्री विकास-प्रधानः, उज्ज्वल-पण्डितः, प्रचार-मन्त्री गोपाल-प्रधानः इत्यादयः बहुसंख्यकाः भक्ताः गणमान्य-जनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan