Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ मे-मास: (हि.स.)। आयुष्मान-भारत-डिजिटल-मिशन (एबीडीएम) इत्यस्य अन्तर्गतं आयुष्मान-भारत-स्वास्थ्य-लेखा (आभा) इत्यनेन सह सम्बद्धानां स्वास्थ्य-अभिलेखानां संख्या शतकोट्यधिकं प्राप्ता अस्ति। स्वास्थ्य-एवं-परिवार-कल्याण-मन्त्रालयस्य अधीनस्थेन राष्ट्रिय-स्वास्थ्य-प्राधिकरणेन सञ्चालितस्य एबीडीएम इत्यस्य उद्देश्यं देशे एकीकृतां नागरिक-केंद्रितां च डिजिटल-स्वास्थ्य-व्यवस्थां विकासयितुम् अस्ति।
केन्द्रीय-स्वास्थ्य-मन्त्रालयेन शुक्रवासरे प्रकाशितायां विज्ञप्त्यां उक्तं यत् फेब्रुवरी २०२५ तमे मासे ५० कोटि-स्वास्थ्य-अभिलेखाः आबा-लेखेन सह सम्बद्धाः आसन्, ये केवलं पञ्चदश-मासानां कालावधौ वर्धिताः सन्तः अद्य शतकोट्यधिकतां प्राप्ताः। अधुना प्रतिद्वि-त्रि-मासेषु प्रायः १० कोटि-नवीन-अभिलेखाः आभा-व्यवस्थायां संयोज्यन्ते। राज्येषु उत्तरप्रदेशः १५.०३ कोटि-अभिलेखैः सह सर्वोपरि अस्ति। ततः परं आन्ध्रप्रदेशः, बिहारः, राजस्थानम्, गुजरात-राज्यम् इत्येतेषां स्थानं वर्तते।
मन्त्रालयेन उक्तं यत् को-विन (CoWIN), प्रधानमन्त्री-जनआरोग्य-योजना (PM-JAY), ई-चिकित्सालय: तथा विविध-राज्यीय-डिजिटल-स्वास्थ्य-मञ्चैः सह ४५० अधिकाः सर्वकारी-निजी-स्वास्थ्य-प्रौद्योगिकी-मञ्चाः एबीडीएम-व्यवस्थायां सम्बद्धाः सन्ति। अनेन देशे पत्र-रहितानां, द्रुततराणां, सुरक्षितानां च स्वास्थ्य-सेवानां प्रवर्तनं भवति।
एतस्याः उपलब्धेः विषये अभिप्रायं प्रकटयन् राष्ट्रिय-स्वास्थ्य-प्राधिकरणस्य मुख्य-कार्यपालकः सुनील-कुमार-बर्नवालः अवदत् यत् एबीडीएम इत्यस्य अन्तर्गतं शतकोट्यधिक-स्वास्थ्य-अभिलेखानां आभा-व्यवस्थया सह संयोजनं देशस्य डिजिटल-स्वास्थ्य-मिशनस्य महती उपलब्धिः अस्ति। सः उक्तवान् यत् एषा उपलब्धिः केन्द्र-राज्य-सरकारयोः, स्वास्थ्य-संस्थासु, निजी-प्रौद्योगिकी-सहभागिषु च डिजिटल-स्वास्थ्य-सेवानां वर्धमानां स्वीकृतिं दर्शयति। आभा-सम्बद्धाः स्वास्थ्य-अभिलेखाः नागरिकेभ्यः स्वकीय-स्वास्थ्य-सूचनां सुरक्षितया सहमति-आधारितया प्राप्तुं सुलभतां ददति, येन उपचारस्य निरन्तरता सुनिश्चिता भवति।
डॉ.बर्नवालः अवदत् यत् एबीडीएम इत्यस्य लक्ष्यं नागरिकान् डिजिटल-स्वास्थ्य-व्यवस्थायाः केन्द्रे स्थापयितुम् अस्ति। अनेन जनाः आवश्यकता-काले स्वकीय-चिकित्सा-अभिलेखान् सुलभतया द्रष्टुं शक्नुवन्ति तथा चिकित्सकैः चिकित्सालयै: च सह डिजिटल-रूपेण सहभागं कर्तुं शक्नुवन्ति। अनेन स्वास्थ्य-सेवाः अधिकाः सुलभाः, द्रुततराः, रोगिणः केन्द्रिताः च भविष्यन्ति। सः अवदत् यत् एबीडीएम देशे अन्तर-संचालनीय-स्वास्थ्य-व्यवस्था (interoperable healthcare ecosystem) विकासयितुं कार्यं करोति, यत्र विविधाः अस्पतालाः, चिकित्सालयाः, स्वास्थ्य-प्रणाल्यः च विनाऽवरोधं रोगिणः चिकित्सा-दत्तांशं सुरक्षिततया परस्परं सम्प्रेषयितुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan