शिक्षक राष्ट्र निर्माणे समर्पितं स्यात्, तदा निर्मास्यते सशक्तं भारतम् : डॉ. शर्मा
- शिक्षकेभ्यः आनंदसभा समायोजिता कार्यशाला भोपालम्, 22 मईमासः (हि.स.) ।आनंद विभाग तथा शिक्षा विभाग इत्येतयोः संयुक्ततत्त्वावधाने राज्य आनंद संस्थान मध्ये मेमासस्य १८ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं २०२६ तमे वर्षे शासकीयशिक्षकेभ्यः राज्यस्तरीया “आनन्
लोक शिक्षण संचालनालय के अपर संचालक डॉ. मनीष शर्मा ने आनंद सभा कार्यशाला को किया संबोधित


- शिक्षकेभ्यः आनंदसभा समायोजिता कार्यशाला

भोपालम्, 22 मईमासः (हि.स.) ।आनंद विभाग तथा शिक्षा विभाग इत्येतयोः संयुक्ततत्त्वावधाने राज्य आनंद संस्थान मध्ये मेमासस्य १८ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं २०२६ तमे वर्षे शासकीयशिक्षकेभ्यः राज्यस्तरीया “आनन्दसभा-प्रशिक्षण-कार्यशाला” आयोज्यते। अस्मिन् प्रशिक्षणकार्यक्रमे गुना, ग्वालियर तथा सीधी जिल्लयोः शिक्षक-प्रशिक्षणार्थिनः सहभागिनः भवन्ति। कार्यशालायाः सञ्चालनं राज्य आनंद संस्थान निदेशकस्य सत्य प्रकाश आर्य निर्देशनाधीनं भवति।

प्रशिक्षणस्य पञ्चमे दिवसे शुक्रवासरे लोकशिक्षणसञ्चालनालयस्य अपरसञ्चालकः डॉ मनीष शर्मा प्रशिक्षणार्थिनः मार्गदर्शितवान्। तेन उक्तं यत् शिक्षकैः स्वचिन्तनं सीमितं न कर्तव्यम्। भारतीयसंस्कृतिः “वसुधैव कुटुम्बकम्” इति भावनायाः आधारे प्रतिष्ठिता अस्ति, यस्य अर्थः सम्पूर्णं विश्वम् अस्माकं परिवारः अस्ति इति।

डॉ मनीष शर्मा उक्तवान् यद् “यदा वयं राष्ट्रनिर्माणाय समर्पिताः भविष्यामः तदा बालकाः अपि राष्ट्रभक्ताः भविष्यन्ति तथा तेषां चरित्रनिर्माणम् अपि भविष्यति। मनुष्यः अधिकं कार्यं कृत्वा न श्राम्यति, अपितु कार्यं भाररूपेण स्वीकृत्य श्राम्यति। स्वयम् अल्पचिन्तनेन लघुपरिधिना च न बध्नीयात्, तदैव आनन्दस्य अनुभूतिः भविष्यति।” तेन महावीरस्वामिनः उदाहरणं दत्त्वा उक्तं यत् स एव सत्यवीरः यः स्वेन सह युद्धं कृत्वा आत्मविजयं प्राप्नोति।

चतुर्थदिवसे मानवमूल्यानां विषये चर्चा

कार्यशालायाः चतुर्थदिवसे मानव-, परिवार-, समाजाधारित-मानवीयमूल्यानां विषये विस्तरेण चर्चा अभवत्। प्रशिक्षणार्थिभ्यः अभिप्रायसङ्ग्रहः अपि कृतः।

कार्यक्रमे लोकशिक्षणसञ्चालनालयात् शंकर खत्री, रिसोर्स-पर्सनः नवीन शर्मा, कौशल बूटोलिया, अभिषेक शर्मा, राजेश पटेल, शैलेंद्र सिंह, मनोज जैन, रवि शंकर रजक, भारती शाक्य तथा सुमन जैन सहिताः अन्ये अधिकारि

णः प्रशिक्षकाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani